SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहकृतानाभोगजन्यम् । तदुक्तं दशवकालिक अ४वृत्तौ-"अयतनया चरन् धर्मपरीक्षा प्रमादानाभोगाभ्यां प्राणि(ण)भूतानि हिनस्तीति ।" ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति । तत्र प्रमत्तसंयतानामपवादपदप्रतिषेव- सटिप्पणा ॥१७७॥ णावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिप्रायेण संयमपरिणामानपायाद् द्रव्यत्वम् , अन्यावस्थायां त्वनाभोगाद् । अप्रमत्तसंयतानां त्वपवा ॥खोपड़ वृत्तिः ॥ दानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यर्थादनाभोगसहकृतमविशेषितं मोहनीयं कमैव जीवघातादिकारणं सम्पन्नम् , गाथा-४९ तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानां तु मोहनीयानाभोगाभ्यां द्रव्या- ॥१७॥ श्रवपरिणतिरिति सिद्धमिति ॥ मोहं विना द्रव्याश्रवपरिणतिर्न स्वकारणप्रभवा केवलिनः सम्भवतीति चेत् , तत्राह-इतरथा द्रव्याश्रवपरिणतेोहजन्यत्वनियमे, द्रव्यपरिग्रहेण वस्त्रपात्ररजोहरणादिलक्षणेन, युतो जिनो मोहवान् भवेत् , द्रव्यहिंसाया इव द्रव्यप-10 रिग्रहपरिणतेरपि त्वन्मते मोहजन्यत्वाद् । न च धर्मोपकरणस्य द्रव्यपरिग्रहत्वमशास्त्रीयमिति शङ्कनीयम् । “दव्वओ णाम एगे परिग्गहे | राणो भावओ १; भावओ णामेगे णो दव्वओ २, एगे दबओवि भाववि ३, एगे णो दव्वओवि णो भावओवि ४। तत्थ अरत्तदुस्स लाधम्मोवगरणं दव्वओ परिग्गहो णो भावओ १ । मुच्छियस्स तदसंपत्तीए भावओ णो दव्वओ २, एवं चेव संपत्तीए दव्वओवि भावHओवि ३ चरिमभंगो पुण सुन्नोत्ति ४ ॥ [द्रव्यतो नाम एकः परिग्रहः, नो भावतः । भावतो नाम एकः परिग्रहः, नो द्रव्यतः । एको द्रव्यतो पि भावतोऽपि । एको नो द्रव्यतोऽपि नो भावतोऽपि । १ तत्र अरक्तद्विष्टस्य धर्मोपकरणं द्रव्यतः परिग्रहः, नो भावतः । २ मूर्छितस्य तदसंप्राप्त्या भावतो नो द्रव्यतः । ३ एवं चैव संप्राप्त्या द्रव्यतोऽपि भावतोऽपि । ४ चरमभङ्गः पुनः शून्य इति । ] इति चतुर्भङ्गया दशवैक लिक-पाक्षिकसूत्रवृत्तिचूपर्यादौ सुप्रसिद्धत्वात् । न च द्रव्यपरिग्रहयुतस्यापि भगवतो मोहवत्त्वमिष्यते, अतो RSS RSHASHTRA
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy