________________
P
धर्मपरीक्षा ॥१७६॥
| सटिप्पणा ॥खोपड़
-
र
भावाश्रवहेतुरसंयतानां सम्पद्यते, संयतानां तु प्रमत्तानामपि सत्तावर्तिचारित्रमोहनीयं द्रव्याश्रवमेव सम्पादयति, सुमङ्गलसाधोरि. वाऽऽभोगेनापि जायमानस्यं तस्य ज्ञानाद्यर्थमत्यापवादिकत्वेन तजन्यकर्मवन्धाभावात्संयमपरिणामस्यानपायेनाविरतिपरिणामस्याभावात्तदुपपत्तेः। या तु तेषामारम्भिकी क्रिया सा न जीवघातजन्या, किन्तु प्रमत्तयोगजन्या; “सव्वो पमत्तजोगो आरंभोत्ति[सर्वः प्रमत्तयोगः आरम्भ इति । ] वचनात् ; अन्यथाऽऽरम्भिकी क्रिया कस्यचित्प्रमत्तस्य कादाचित्क्येव स्यात् , तत्कारणस्य जीवघातस्य कस्यचित्कादाचित्कत्वात् , अस्ति चाऽऽरम्भिकी क्रिया प्रमत्तगुणस्थानं यावदनवरतमेव । किश्च-यदि जीवघातेनाऽऽरम्भिकी क्रिया भवेत् । तदाऽपरोप्रमत्तो दरे, उपशान्तवीतरागस्याप्यारम्भिकी क्रिया वक्तव्या स्याद् अस्ति च तस्य सत्यपि जीवधाते ईर्यापथिक्येव क्रियेति न जीवघातात्संयतस्यारम्भिकी क्रिया, किन्तु प्रमत्तयोगादिति स्थितम् । स च प्रमत्तो योगः प्रमादैर्भवति । ते च प्रमादा अष्टधा शास्त्रे प्रोक्ताः-१अज्ञानरसंशय३विपर्यय४रागद्वेषमतिभ्रंश योगदुष्प्रणिधानाधर्मानादरभेदात् । ते चाज्ञानवर्जिताः सम्यग्दृष्टे रपि सम्भवन्तोऽतः प्रमत्तसंयतपर्यन्तानामेव भवन्ति न पुनरप्रमत्तानामपि, प्रमादाप्रमादयोः सहानवस्थानात् । तेनेहाष्टासु प्रमादेषु यौ रागद्वेषौ प्रमादत्वेनोपाचौ तौ योगानां दुष्प्रणिधानजननद्वाराऽऽरम्भिकीक्रियाहेतूग्राह्यौ। तयोश्च तथा तयोः फलोपहितयोग्यतया जीवघातं प्रति कारणत्वस्य कादाचित्कत्वेऽपि स्वरूपयोग्यतया तथात्वं सार्वदिकमेव । यद्यपि सामान्यतो रागद्वेषावप्रमत्तसंयतानामपि कदाचिफलोपहितयोग्यतयापि जीवघातहेतू भवतस्तथापि तेषां तौ न प्रमादौ यतनाविशिष्टया प्रवृत्त्या सहकृतयोस्तयोरारम्भिकीक्रियाया अहे
तुत्वात , तदप्यनाभोगसहकृतयतनाविशिष्टयो रागद्वेषयोर्योगानां दुष्प्रणिधानजनने सामर्थ्याभावात् , सम्यगीर्यया प्रवृत्त्या तयोस्तथा15 भूतसामर्थ्यस्यापहरणात् । न चैवं प्रमत्तानां सम्भवति, तेषामयतनया विशिष्टयोस्तयोर्योगानामशुभताजनकत्वेनारम्भिकीक्रियाहेतत्वाद.
454555
गाथा-४९ ॥१७६॥
-
5