SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१७५॥ ABRI- . 'दव्यासवस्स'त्ति । गऱ्याविषयस्य द्रव्याश्रवस्य विगमो यदि, तहिति तत्र क्षीणमोहे, इष्टोऽभिमतो भवतः, तर्हि सटिप्पणा अर्थतोऽर्थापच्या, भावगतं पापं तत्र, प्रतिपन्नं भवति, गर्हणीयपापत्वावच्छिन्न प्रति त्वन्मते मोहनीयकर्मणो हेतुत्वात् , तन्निवृत्तौ । ॥स्वोपज्ञ गर्हणीयपापनिवृत्तावप्यगर्हणीयभावरूपपापानिवृत्तः अगहणीयपापेऽप्यनाभोगस्य हेतुत्वात तन्निवृत्तौ केवलिनस्तन्निवृत्तिः। क्षीणमोहस्य त्वाश्रवच्छायारूपमगर्हणीयपापमभ्युपगम्यत एवेति न दोष इति चेत्, न । अभ्यन्तरपापमात्रस्य गर्हापरायणजनाप्रत्यक्षत्वेन त्वन्मते- लगाथा-४८ ऽगर्हणीयत्वात् तत्सामान्येनाभोगस्य हेतुत्वात् । मोहाजन्यागर्हणीयपापेऽनाभोगस्यान्यत्र च तत्र मोहस्य हेतुत्वान्न दोष इति चेत् , न, गहणीयपापहेतोर्मोहस्यागर्हणीयपापहेतुत्वाभावाद् , अन्यथा तज्जन्यगर्हणीयागर्हणीयोभयस्वभावैकपापप्रसङ्गादिति न किश्चिदेतत् ॥४८॥ ॥१७५॥ - द्रव्याश्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकुर्वन्नाहणियणियकारणपभवा, दव्वासवपरिणईण मोहाओ। इहरा दवपरिग्गह-जुओ जिणो मोहवं हुज्जा ॥४९॥ [निजनिजकारणप्रभवा द्रव्यास्रवपरिणतिर्न मोहात् । इतरथा द्रव्यपरिग्रहयुतो जिनो मोहवान् भवेत् ॥ ४९॥] . व्याख्या-द्रव्याश्रवाणां प्राणातिपात-मृषावादादीनां, परिणतिः, निजनिजानि कारणानि यानि नोदनाभिघातादियोगव्यापारमषाभाषावर्गणाप्रयोगादीनि, तत्प्रभवा सती, न मोहान्मोहनीयकर्मणो भवति-मोहजन्या नेत्यर्थः । क्वचिन्प्रवृत्यर्थ मोहोदयापेथायामपि दृव्याश्रवत्वावच्छिन्ने मोहनीयस्याहेतुत्वाद् , अन्यथाऽऽहारसंज्ञावतां कवलाहारप्रवृत्तौ बुभुक्षारूपमोहोदयापेक्षणात्कबलाहारत्वावच्छिन्नेऽपि मोहस्य हेतुत्वात् केवली कवलभोज्यपि न स्यादिति दिगम्बरसगोत्रत्वापत्तिरायुष्मतः। अथ कवलाहारस्य वेदनीयकमप्रभवत्वान्न तत्र मोहनीयस्य हेतुत्वम् , आश्रवस्य तु मोहप्रभवत्वप्रसिद्धद्रव्याश्रवपरिणतिरपि मोहजन्यैव, तत्रोदितं चारित्रमोहनीयं ARO
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy