Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२०॥
RSS
सटिप्पणा ॥खोपड़ वृचिः ॥ गाथा-५३ ॥२०॥
यतनया प्रवर्त्तमानानां छबस्थसंयतानामनाभोगजन्याशक्यपरिहारेण जायमानं जीवघातानृतभाषणादिकं संयमपरिणामानपायहेतुः,संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् ॥ अयं भावः-"यद्धर्मविशिष्ट यद्वस्तु निजस्वरूपं जहाति स धर्मः तत्रोपाधिरिति” नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि । गदागमः ओघनि० "जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ णिजरफला, अज्झत्थविसोहिजुत्तस्स ।।७५९॥"त्ति ७६० पिंडनियुक्ति । अत्र हि 'सुत्तविहिममग्गस्म'त्ति कृतसर्वसावधप्रत्याख्यानस्य वर्जनाभिप्रायवतः साधोरित्यर्थः। तत्र जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद् , एतेन जीवबिराधनापि यदि निर्जरां प्रति कारणं भवेत् , तर्हि तथाभूतापि विराधना तपःसंयमादिवद्भयस्येव श्रेयस्करी, भूयोनिर्जराहेतुत्वादिति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात् । न चैवं जीवविराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जरायाः प्रतिबन्धकत्वात् । प्रतिबन्धकं च यथायथाऽल्पमसमर्थ च तथातथा श्रेयः, तेन तस्याः कारणत्वं प्रतिबन्धकाभावत्वेन, प्रतिबन्धकाभावस्य च भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद् . अन्यथा तदभावस्य कारणता न स्यादित्यादिकूटकल्पनारसिकेणोच्यते । तदसत् , निश्चयतः सर्वत्र संयमप्रत्ययनिजरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात् , तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे बाधकाभावात् , "जे आसवा ते परिस्सवा" [ये आस्रवास्ते परिस्रवाः] इत्यादिवचनप्रामाण्यात् । निमित्तकारणोत्कर्षापकर्षों च न कार्योत्कर्षापकर्ष

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304