SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२०॥ RSS सटिप्पणा ॥खोपड़ वृचिः ॥ गाथा-५३ ॥२०॥ यतनया प्रवर्त्तमानानां छबस्थसंयतानामनाभोगजन्याशक्यपरिहारेण जायमानं जीवघातानृतभाषणादिकं संयमपरिणामानपायहेतुः,संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् ॥ अयं भावः-"यद्धर्मविशिष्ट यद्वस्तु निजस्वरूपं जहाति स धर्मः तत्रोपाधिरिति” नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि । गदागमः ओघनि० "जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ णिजरफला, अज्झत्थविसोहिजुत्तस्स ।।७५९॥"त्ति ७६० पिंडनियुक्ति । अत्र हि 'सुत्तविहिममग्गस्म'त्ति कृतसर्वसावधप्रत्याख्यानस्य वर्जनाभिप्रायवतः साधोरित्यर्थः। तत्र जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद् , एतेन जीवबिराधनापि यदि निर्जरां प्रति कारणं भवेत् , तर्हि तथाभूतापि विराधना तपःसंयमादिवद्भयस्येव श्रेयस्करी, भूयोनिर्जराहेतुत्वादिति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात् । न चैवं जीवविराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जरायाः प्रतिबन्धकत्वात् । प्रतिबन्धकं च यथायथाऽल्पमसमर्थ च तथातथा श्रेयः, तेन तस्याः कारणत्वं प्रतिबन्धकाभावत्वेन, प्रतिबन्धकाभावस्य च भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद् . अन्यथा तदभावस्य कारणता न स्यादित्यादिकूटकल्पनारसिकेणोच्यते । तदसत् , निश्चयतः सर्वत्र संयमप्रत्ययनिजरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात् , तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे बाधकाभावात् , "जे आसवा ते परिस्सवा" [ये आस्रवास्ते परिस्रवाः] इत्यादिवचनप्रामाण्यात् । निमित्तकारणोत्कर्षापकर्षों च न कार्योत्कर्षापकर्ष
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy