________________
धर्मपरीक्षा ॥ १९९॥
ज्ञानादिहानिनिवारण मात्राभिप्रायस्य संयमपरिणतेऽ ( रन ) पायहेतुत्वेऽपि तत्कृतबधे लौकिकपातकन्वव्यवहारविषयत्वेनाशुद्धत्वानिवृत्तेः । पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं बृहत्कल्प भाष्ये - " गीयत्थो जयणाए, कडजोगी कारणंमि णिद्दोसो || एगेसिं गीयकडो, अरतदुट्ठो य जयणाए || ४९४६ ।। "त्ति । [ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः । एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया ।। ] तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थितम् । अत एव विरताविरतयोजनतोरजानतोश्व विराधनायां यतनाऽयतनानिमित्तकाऽध्यात्मशुद्धि-तदशुद्धिविशेषात् कर्म्मनिर्जरा बन्धविशेषो व्यवस्थितः । तदुक्तं बृहत्कल्प भाष्यवृत्त्योद्वितीयखण्डे - " अथ ज्ञाताज्ञातद्वारमाह-जाणं करेइ इक्को, हिंसमजाणमपरो अविरओ अ ।। तत्थवि बंधविसेसो, महंतरं देसिओ समए ॥ ३९३८ ॥ इह द्वावविरतौ, तंत्रकस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपरः पुनरजानन्, तत्रापि तयोरपि बन्धविशेषः 'महंतरं 'ति महतान्तरेण देशितः समये - सिद्धान्ते । तथाहि - यो जानन् हिंसां करोति स तीव्रानुभावं बहुतरं पापकर्मोपचिनोति; इतरस्तु मन्दतरविपाकमल्पतरं तदेवोपादसे । “विरतो पुण जो जाणं, कुणति अजाणं व अप्पमतो य । तत्थवि अज्झत्यसमा, संजायति णिञ्जरा ण चओ ||३९३९||” यः पुनर्विरतः प्राणातिपातादिनिवृत्तः स जानानोऽपि सदोषमिदम् इत्यवबुध्यमानोऽपि गीतार्थतया द्रव्य• क्षेत्राद्यागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यद्वा न जानाति परमप्रमत्तो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् प्राण्युपतं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सञ्जायते । यस्य यादृशस्तीत्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । 'न चओ'ति न पुनश्चयः कर्मबन्धः सूक्ष्मोऽपि भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथञ्चित्प्राण्युपघातसम्भवेऽप्यदुष्टत्वादिति । यत्तु जीवघातवर्जनाभिप्रायवतां
1
सटिप्पणा ॥ स्वोपज्ञ वृतिः ॥
गाथा - ५३ ॥१९९॥