________________
थर्मपरीक्षा ॥१९८॥
इन्द्रियविज्ञानकायानां विसदृशत्वात् , सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् । यदि हि वध्यापेक्षयै(क्ष ए)व कर्मबन्धः स्यात् | ततस्तद्वशान कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते, नच तत्तद्वशादेव बन्धः, अपि त्वध्यवसायवशादपि ततश्च तीव्राध्यवसायि
सटिप्पणा नोल्पकायसत्त्वव्यापादनेऽपि महद्वैरम् , अकामस्य तु महाकायसत्त्वव्यापादनेऽपि खल्पमिति । एतदेव सूत्रेणैव दर्शयितुमाह-एतेही
वृचिः ॥ त्यादि। आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धमदृशत्वविसदृशत्वयोर्व्यव
जगाथा-५३ हरण व्यवहारो नियुक्तिकत्वान्न युज्यते। तथाहि-न वभ्यस्य सहशत्वमसदृशत्वं वैकमेव कर्मवन्धस्य कारणम् , अपि तु वधकस्य तीव्रभावो | ॥१९८॥ का मन्दभावो ज्ञात(न)भावोऽज्ञात(न)भावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि तदेवं वध्यवधकयोर्विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते
वध्यमेवाश्रित्य सहशत्वासदृशत्वव्यवहारो न वियत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति ॥ तथाहियजीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम् , यतो नहि जीवन्यापच्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि त्विन्द्रियादिव्यापच्या। तथा चोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः॥ प्राणा दशैते भगवद्भिरुक्ता-स्तेषां वियोजीकरण तु हिंसा ॥१॥ इत्यादि । अपि च भावसव्यपेक्षस्यैव कर्मवन्धोऽभ्युपेतुं युक्तः। तथाहि-वैद्यस्थागमसन्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति, तथापि न वैरानुषङ्गीभवेद्भावदोषाभावात् । अपरस्य तु सर्पबुद्धया रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे-'ऊच्चालिअंमि पाए [उच्चालिते पादे। इत्यादि। तन्दुलमत्स्याख्यान तु सुप्रसिद्धमेव । तदेवंविधवध्यवधकभावापेक्षया स्यात्सहशत्वम् , स्थादसदृशत्वमिति, अन्यथाऽनाचार इति ॥" एतेन लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरिति परस्य यत्र तत्र प्रलपनमपास्तम् ॥ अपि चैवमापवादिकोऽपि वधो महानर्थाय सम्पद्यते,
+%AARAKHAND