________________
धर्मपरीक्षा ॥१९७॥
सटिप्पणा | ॥खोपक्ष
BASNEKACIDISHA
द्यध्ययनवतामपि सूक्ष्माष्टकविदां परिणतलोकोत्तरदयावरूपाणां प्रतीतमेव । स्थावरसूक्ष्मत्रसविषयकोऽनाभोगः केवलज्ञानं विना दुरत्यय इति तु सूक्ष्माष्टकयतनाविधानान्यथानुपपत्त्यैव बाधित परिणामशुद्धयर्थ तद्, न तु तदाभोगार्थम्-इत्येवं तदाभोगापलापे च स्थूल
साभोगाभ्युपगमोऽप्युच्छियेत, तत्रापीत्थं वक्तुं शक्यत्वात् , चेष्टालिङ्गाभिव्यक्तेः स्थूलत्रसाभोगोऽभिव्यक्त एवेति चेत्, पृथिव्यादिजीवाभोगोऽपि जिनवचनाभिहितलिङ्गादाज्ञाप्रामाण्याद्वा किं नाभिव्यक्तः ? व्यक्तीयत्तयाऽनाभोगस्तु मनाक्स्पन्दत्कुन्थुतदनुकारिरजस्त्रुटिपुञ्जेऽपि वक्तुं शक्यत इति न किञ्चिदेतत् । ततो यतनां कुर्वतामशक्यपरिहारा हिंसा सूक्ष्मस्थूलजीवविषयकमेदेऽप्यशक्यपरिहा. रत्वेन समानैव, विषयभेदात् तद्भेदं तु व्यवहारेण न वारयामः। अत एवाब्रह्मसेवायामपि देशविरतस्य कृतसङ्कल्पमूलस्थूलजीवहिंसाप्रत्याख्यानाभङ्गान्न व्याधादिवदुष्टत्वम् । न चैवं देशविरतम्येव साधोरप्याभोगेन पृथिव्यादिवधे न दुष्टत्वमिति साधोः प्रत्याख्यानभङ्गदोपविशेषसमर्थनार्थ पृथिव्यादिजीवाभोगोऽप्यवश्यमभ्युपेयः। यदि च स्थूलत्रसविषयक एवाभोगोभ्युपगम्येत, तदा तद्विषयैव हिंसकान्ततो दुष्टा स्यात् . न चैवं जैनप्रक्रियाविदो वदन्ति, तैः क्षुद्रमहत्सत्त्ववधसादृश्यवसदृश्ययोरनेकान्तस्यैवाभ्युपगमात् । तदुक्तं सूत्रकृताङ्गे श्रु०२ अ०५ "जे केइ खुद्दगा पाणा, अदुवा संति महालया ॥ सरिसं तेहि वेरं ति, असरिसं ति य णो वए॥६॥ एतेहिं दोहिं 'ठाणेहिं, ववहारो ण विजई। एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥७॥"त्ति एतवृत्तिर्यथा-"ये केचन क्षुद्रकाः सत्त्वाः प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते,तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यश्वादयस्तेषां च व्यापादने सदृशं बेरमिति वजं-कर्म विरोधलक्षणं वा वैरं, सदृशं समानम् , तुल्यप्रदेश वा सर्वजन्तूनामित्येवमेकान्तेन नो वदेत् । तथा विसदृशमसदृशम् , तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा,