________________
धर्मपरीक्षा ॥१९६॥।
प्रथत्त्रशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात्, शक्यच कुन्ध्वादिस्थूलत्रसजीवविषयकस्थानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुःसाधमिति संयमो दुराराधो भणितः । एवं सम्यक् प्रयत्नपरायणानामपि कदाचित् कुन्ध्वादिस्थूलत्रसजीवविराधना स्यात् । सा च प्रायोऽसम्भविसम्भवेनावश्यंभाविनीति वक्तव्यम्, शक्यपरिहार जीवविषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात्सा - प्यवश्यंभाविनी, विराधना द्वेधा - अनाभोगमूला अनाभोगपूर्विका, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्या जीवघाते जाते " तत्परिज्ञानाद् | द्वितीया तु निम्नप्रदेशादौ पिपीलिक । दिकमदृष्ट्वैवोत्पाटिते पादे दृष्ट्वाऽपि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानत्वात् परमनाभोगमूलिकापि स्थूलत्र सजीवविरराधना संपतानां तज्जन्यकर्मबन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्कर्तुर्हिसाव्यपदेशहेतुत्वात् तथाव्यपदेशः स्थूलत्रसजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् । न चैवं केवलिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना. तस्याश्छद्मस्थसाक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात् । अत एवाब्रह्मसेवायाम - कशतसहस्रपञ्चेन्द्रियजीवविराधकोऽपि देशविरतिश्रात्रको 'जीवविराधकः' इति व्यपदेशविषयो न भवति, भवति चैकस्या अपिपिपी - लिकाया विराधनेनाऽभोगेनापि, आभोगे च स्वज्ञातिज्ञ । तेऽपांक्तेयोऽपि स्यान, तेन निजसाक्षात्कारविषयीभूताविषयीभूतयोर्जीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्याधादिभ्योऽपि जीवघातक वेनाधिको वक्तव्यः स्यात्-इत्यादि परस्य कल्पना जालमपासंयतानां नद्युत्तारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैव दुष्टत्वात् । यच्च तया न संयमस्य दुराराधत्वम्, तस्याः कादाचित्कत्वाद|लम्बनशुद्धत्वाच्च । यथा च कुन्थुत्पत्तिमात्रेण सार्वदिकयत नाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वम्, तथा तथाविधक्षेत्रकाला दिवशात् सूक्ष्मबीजहरितादिप्रादुर्भावेऽपि सार्वदिकतद्यतन। हेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वमेवेति तु दशवेकालिका
स्तम्
सटिप्पणा ॥ पोपत्र
वृचिः ।
गाथा - ५३ ॥१९६॥