________________
सटिप्पा स्वोरण वृषिः ॥ गाथा-48
Vाद्वारेषु ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजहभागमेत्ता सुहमपणगजीवस्स सरीरोगाहणाओ असंखेजगुणा ॥ इति ।" [तानि अर्मपरीक्षा
| च बालाग्राणि दृष्टयवगाहनातोऽसंख्येयभागमात्राणि सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि ॥ ततो यत्रापि नैते दृश्यन्ते, तत्रापि ते सन्तीति प्रतिपत्तव्याः। आह च मूलटीकाकार:-इह " सर्वबहवो वनस्पतयः इति कृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानाम् , तेषां च बहुत्वम् , "जत्थ आऊकाओ तत्थ णियमा वणस्सइकाइआ इति पणगसेवालहढाई बायरा वि होंति, सुहुमा आणाज्झा, ण चक्खुण"त्ति ॥" पनकसेवालहढादयो बादरा अपि भवन्ति सूक्ष्मा आज्ञाग्राह्या न चक्षुषेति ॥] किश्च-नयुत्तारादौ मण्डूकादित्रसविराधना "तसा य पचक्खया चेव"त्ति वचनात् अवश्यं जायमानाभोगपूर्विकैव, इत्येवं च सति जीवोऽयमिति साक्षात्कृत्वा यो जीवघातं करोति तस्य विरतिपरिणामो दूरे, निश्चयतः सम्यक्त्वमपि न स्यात् , अनुकम्पाया अभावेन सम्यक्त्वलक्षणाभावाद्-इत्यादि परोतं. यत्किञ्चिदेव, आप्तवचनाजीवत्वेन निश्चितस्य विराधनायाः स्वादर्शनमात्रेणाभोगपूर्वपूर्वकत्वाभावे आप्तोक्तवस्त्राद्यन्तरितत्रसादिविराधनायामपि तदापत्तेः, दृष्ट्वा स्थूलत्रसविराधनायामाभोगविशेषाद्विषयविशेषाच्च पातकविशेषस्तु स्याद् , न चतावताऽन्यत्रानाभोग एव व्यवस्थापयितुं शक्यते । न खलु राजदारगमने महापातकाभिधानादन्यत्र परदारगमने परदारगमनत्वमेव नेति वक्तुं युक्तम् । एतेनाभोगमूलाऽऽोगपूर्विका च जीवविराधना विनापराधं मिथ्यादृशोऽपि प्रायोऽनार्यजनस्यैव भवति, सा च नावश्यंभाविनी, प्रायः | सम्भविसम्भवात् । संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तारादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थत्पत्तिमात्रेणापि, तत्र निदानं तावदाभोगाऽनाभोगावेव । तत्र यद्यपि संपतानामुभयत्रापि जीवविराधनाऽनामोगादेव, तथापि स्थावरसूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वांशैरपि सर्वकालीनो न पुनः काचित्कः कादाचित्कश्च, तस्य चापगमः