________________
धर्मपरीक्षा ॥१९४॥
न्यूनाधिक जल जीवविराधना भोगाधीनमिति व्यवहारसचित्ततया जलजीवाभोगाभ्युपगमावश्यकत्वात् तव वदतो व्याघात एव महात्रपाकारणमिति । किञ्च - नद्यादिजलजीवानां निश्चयतश्छद्मस्थानां सचित्तत्वापरिज्ञानेऽपि तत्र स्थितपनकसेवालादीनां निश्चयतोऽपि सचितत्वं परिज्ञायते एव । तदुक्तमोघ निर्युक्तौ - "सब्वो वऽणंतकाओ, सच्चित्तो होइ णिच्छयणयस्स । वबहारओ अ सेसो, मीसो फम्हाणरोट्टाइ ॥ ३६३ ॥ " पिंडनि० ४४ " एतद्वृत्तिर्यथा - सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परीत वनस्पतिर्व्यवहार नय मतेन सचित्तो मिश्रश्च प्रम्लानानि यानि फलानि कुसुमानि पर्णानि च, "रोट्टो लोट्टो तंदुलाः कुट्टिताः तत्थ तंदुलमुहाई अच्छंति, तेण कारणेन सो मीसो भन्नइत्ति ।" ते च पनकशेवालादयो जलेऽवश्यं भाविन इति तद्विषयविराधना निश्वयतोऽप्याभोगेन सिद्धेति । तत्राना भोगेनैव जीवविराधनेति दुर्वचनम् । न च ते तत्रास्माभिः प्रत्यक्षतो न दृश्यन्ते, अतस्तद्विराधनानाभोगजैवेति वक्तव्यम्, स्वच्छस्तोकजलनद्यादिषु पनकादीनामस्माभिरप्युपलभ्यमानत्वेन 'नास्माभिस्ते तत्र दृश्यन्त' - इत्यस्यासिद्धत्वात् । किञ्च आगमवचनादपि तत्र तदवश्यंभावो निश्चीयते । तदुक्तं प्रज्ञापनातृतीय पदवृत्तौ - "बादरतेजस्कायिकेभ्योऽसङ्ख्येयगुणाः प्रत्येकशरीरबादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः, तेषामत्यन्तमूक्ष्मावगाहनत्वाद्, जलेषु सर्वत्रापि च भावात् । पनकसेवालादयो हि जलेऽवश्यंभाविनः, ते च बादरानन्तकायिका इति । तथा बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याकतया तेषां प्राप्यमाणत्वात् । ततो यत्र ते बहवस्तत्र बहुत्वं जीवानाम्, यत्र त्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आप:, ' जत्थ जलं तत्थ वर्ण' इति वचनात् तत्रावश्यं पनकसेवालादीनां भावात्, ते च पनकसेवालादयो बादरनामकमोंदये वर्त्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वाद् अतिप्रभूतपिण्डीभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः । तथा चोक्तमनुयोग
JAY
सटिप्पना ॥खो
हचिः ।।
गाथा - ५३ ॥१९४॥