________________
पर्नपरीक्षा
सटिप्पणा खोपा
गाथा-५२
SHRESS
हिंसया जिनस्य दोष भगतस्तव साधूनामप्याभोगनिद्युत्तारादि विघटेन, तेषामपि नधुत्तारादौ जलजीवादिविराधनाया अध्यक्षसिद्धत्वादिति। नन्वेतदसिद्धम् , नहि जलजीवानामप्रत्यक्षन्वेन तद्विराधनायाः प्रत्यक्षत्वं सम्भवति, प्रतियोगिनोऽप्रत्यक्षत्वे तदनुयोगिनोऽप्यप्रत्यक्षत्वात् । न च जलस्य प्रत्यक्षत्वेन तज्जीवानामपि प्रत्यक्षत्वमिति वाच्यम् , इदं जलमिति ज्ञानमात्रणेदं जलं सचित्तमिति विवेकेन परिज्ञानोदय प्रसक्तः। तस्मात् "दुविहा पुढविकाइआ पन्नत्ता तंजहा परिणया चेव अपरिणया चेव, जाव वणप्फइकाइति [ द्विविधाः पृथ्वीकायिकाः प्रज्ञप्ताः, तद्यथा-परिणताव अपरिणताश्चैव यावद् वनस्पतिकायिका इति ॥] श्रीस्थानाङ्ग सू० ७३ । “तत्र परिणताः स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिता अचित्तीभृता इत्यर्थः-इत्यादिप्रवचनवचनेन नद्यादिजले सचित्ताचित्तयोरन्यतरन्वेन परिज्ञाने सत्यपि इदं जलं सचित्तम् , इदं वा अचित्तम् इति व्यक्त्या विवेकमधिकृत्य परिज्ञानाभावेन छमस्थसंयतानामनाभोग एव, तेन सिद्धा नथुत्तारादौ जलजीवविराधनानाभोगजन्याशक्यपरिहारेण इत्याशङ्कायामाहवजंतो अ अणिटुं, जलजीवविराहणं तहिं सक्खं । जलजीवाणाभोगं, जंपतो किंण लज्जेसि ॥ ५३॥ 1 [वर्जयश्चानिष्टां जलजीवविराधनां तत्र साक्षात् । जलजीवानाभोग जल्पन् किं न लजसे ॥५३॥
'वजंतो यत्ति । तत्र नद्युत्तारे, जलजीव विराधनामनिष्टां माक्षादर्जयन् वर्जनीयाभ्युपगच्छंश्च, जलजीवानाभोगं Bा जलपन किं न लजसे ॥ अयं भावः-नयुत्तारे बहुजलप्रदेशपरित्यागेनाल्पजलप्रदेशप्रवेशरूपा यतना तावत्वयापि स्वीक्रियते, सा|
च जलजीवानाभोगाभ्युपगमे दुर्घटा, स्वल्पजलं सचित्तं भविष्यति बहुजलं चाऽचित्तमिति विपरीतप्रवृत्ति हेतुशङ्कापिशाचीप्रचारस्थापि दुर्वारत्वाद् । भगवदुक्तयतनाक्रमप्रामाण्यानेय शकेति चेत्, तर्हि यतनाया अपि बहुतरासत्प्रवृत्तिनिवृत्तिरूपाया विवेकेन परिज्ञानं