________________
॥१९२॥
सटिप्पणा | ॥खोपत्र
वृत्तिः । गाथा-५१ ॥१९॥
4354OK
क्रियाभ्युपगमे च कायिक्यादिक्रियात्रयस्य परस्परं नियमानुपपत्तिरिति॥ कायिकी क्रिया द्विविधा-अनुपरतकायिकी क्रिया दुष्प्रयुक्तकायिकी क्रिया चेति सिद्धान्तेऽभिधानात, कायिकी क्रियाऽऽरम्भिक्यासमनियता, प्राणातिपातिकी च प्राणातिपातव्यापारफलोपहितत्वात् तद्वयाप्यैवेति प्रतिपत्तव्यम् , तत आरम्भकत्वं प्राणातिपातकत्वं च सत्यामपि द्रव्यहिंसायां प्रमत्तस्यैव नाप्रमत्तस्येति भगवतस्तया तदापादनमयुक्तमेवेति दिक ॥५१॥ अथावश्यंभाविन्यां जीवविराधनायामाभोगवतो भगवतो यद् घातकत्वमापाद्यते तकि लोकोत्तरव्यवहाराद्, उत लौकिकव्यवहाराद्, उताहो खमतिविकल्पितव्यवहाराद्।। नाद्यः, लोकोत्तरघातकत्वव्यवहारे आभोगेन जीवविराधनामात्रस्यातन्त्रत्वाद्, आभोगेनापि जायमानायां तस्यामपवादपदप्रतिषेविणोऽघातकत्वस्य, अनाभोगेनापि जायम नायां तस्यां प्रमादिनो घातकन्वस्य च तद्व्यवहारेणेष्टत्वाद् । नापि द्वितीयः, यतो लोका अपि नाभोगेन जीवघातमात्रादेव घातकत्वं व्यवहरन्ति, कूपनष्टायां गवि तत्कषुर्गोवधकर्तृत्वप्रसङ्गाद्, गोराभोगस्यापि तदा स्फुटत्वाद् , आभोगजन्यस्य च हिंसायामसिद्धत्वाद् । हिंसायां हि जिघांसाहेतु राभोगस्त्वन्यथा सद्ध इत्येतद्दोषवारणार्थ 'मरणोद्देश्यकमरणानुकूलशपारवत्वं हिंसा वक्तव्या, तथापि काशीमरणोद्देशपूर्वकानुष्ठाने आत्म हिंसात्वापत्तिवारणार्थमदृष्टाद्वारकत्वं विशेषणं देयम् , इत्यदृष्टाद्वारकमरणोद्देश्यकमरणानुकूलव्यपारवत्त्वमेव हि हिंसा न्यायशास्त्र सिद्धति तृतीयस्तु पक्षोऽवशिष्यते । स तु स्वमतिविकल्पितत्वादेव स्वशास्त्रप्रतिज्ञाबाधया महादोषावह इत्यभिप्रायेणाहअणुसंगयहिंसाए, जिणस्स दोसं तुहं भणंतस्स ॥ साहूण वि आभोगा, णइउत्ताराइ विहडिज्जा ॥ ५२ ॥
[अनुषङ्गाजहिंसया, जिनस्य दोषं तव भणतः । साधूनामप्याभोगाद् . नद्युत्तारादि विघटेत ॥ ५२॥] 'अणुसंगयहिंमाए'त्ति अनुषजया-धर्मदेशनामात्रोद्देश्यकप्रवृत्त्युपजायमानकुनयमतखेदादिवत्स्वानुद्देश्यकप्रवृत्तिजनितया
BAR SA%%
64