SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्ष ॥१९१॥ दमात्रादवीतरागमात्रस्य कायिकयादिक्रियात्रय नियमः स्यात्, तदा सूक्ष्मसंपराये प्राणातिपातसम्पत्तौ प्राणातिपातक्रियया षड्विधबन्धकत्वस्याप्युपपत्तौ "जीवे णं भंते ! पाणाइवाएणं कइ कम्मपगडीओ बंधड़ ? गोअमा ! सत्तविहबंधए वा अडविहबंधए वा ।" [जीवो भदन्त ! प्राणातिपातेन कति कर्मप्रकृतीर्वध्नाति ?, गौतम !, सप्तविधबन्धको वाऽष्टविधबन्धको वा ।] इत्युक्तव्यवस्थानुपपत्तिः । नन्वेवं "जीवे णं भंते! नाणावरणिजं कम्मं बंधमाणे कइकिरिए ?, गोअमा !, सिय तिकिरिए सिय चउकिरिए सिय पंचकरिए । [ जीवो भदन्त ! ज्ञानावरणीयं कर्म वध्नन कतिक्रियः १ गौतम ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । ] इति प्रज्ञापनासूत्रस्य पद२२ का गतिः ? भवदुक्तरीत्या ज्ञानावरणीयं कर्म बघ्नतो दशमगुणस्थानवर्तिनोऽक्रियत्वस्यायि सम्भवेन स्यादक्रियः' इति भङ्गन्यूनत्वादिति चेत्, खसहचरिते स्वकार्ये वा ज्ञानावरणीये प्राणातिपातस्य परिसमाप्तिनिर्वृत्ति भेदप्रकारो पदर्शनपरमेतत् सूत्रम्, न तु तद्धन्धे क्रियाविभागनियमप्रदर्शनपरम् - इत्येषा गतिरिति गृहाण । तदुक्तं तद्वृत्तौ “इह प्रागुक्तं जीवः प्राणातिपातेन सप्तविधमष्टविधं वा कर्मबध्नाति स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म वध्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते । अपि च कार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणातिपाताख्यस्य निवृत्तिभेद उपदर्श्यते, तद्भेदाच्च बन्धविशेषोऽपीति । उक्तं च- "तिसृभिचतसृभिरथ, पञ्चभि (क्रियाभिः ) हिंसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्याद्, योगप्रद्वेषसाम्यं चेद् ॥ १ ॥” इति तमेव प्राणातिपांतस्य निवृत्तिभेदं दर्शयति- 'सिय तिकिरिए' इत्यादीति,” अथैवमप्रमत्तस्यैवा क्रियत्वखामिनः सुलभत्वाद् भगवतीवृत्तौ अक्रियत्वं वीतरागावस्थामाश्रित्यैव कथमुपपादितम् ?, इति चेत्, स्पष्टत्वार्थम् । बादरसम्परायं यावत् प्रद्वेषान्वयेन त्रिक्रियत्वाभ्युपगमेऽपि सूक्ष्मसम्परायस्याऽक्रियत्वस्थानस्य, परिशिष्टत्वेनैतदुपपादनार्थम् एतत्प्रकारस्यावश्याश्रयणीयत्वात् । प्रद्वेषाभावेन तत्र कायिक्यधिकरणिकी J सटिप्पणा ॥स्वोपज्ञ वृतिः ॥ गाथा - ५१ ॥१९१॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy