Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 197
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 आयुर्वेदसूत्रे विवर्णत्वं च लक्षणं भवतीत्यर्थः । सर्वशरीरव्याप्यपवनस्य वि. कारग्रस्तत्वात् । सर्वशरीराङ्गवेदनाभावात् कथमेकदेशवेदना इत्याकांक्षायां यावद्विरसादनजन्यसारः यावत्सिराप्रदेशेषूपलभ्यते तत्रायं नियमः । शङ्कासमाधानं च कृतं ---सर्वशरीरसञ्चारितपवनस्य विकारस्य सर्वशरीरवेदनाभावशानमेव सिराप्रदेशसञ्चारात् तत्तदने नीरोगत्वं प्रतीयते । चिकित्साकार्य तत्तदङ्गेष्वेव तत्प्रतीकारद्रव्यादनेन तद्विरुद्धरसादनजन्यदोषनिवृत्तेः न दोषप्रकोपं निराकृत्य सुखं भूयादित्यर्थः । . केचिद्विरुद्धरसजन्याद्भिः सिराभ्यन्तररन्ध्रमार्गेषु पूर्णप्रदेशत्वात् विवर्णित्वं विरसास्यत्वं च ज्ञाप्यते । तेन पवनप्रकोपनिवर्तकरसविरसादनजन्यमुदरामयमिति ज्ञातुं शक्यत एवे. त्यर्थः । पित्तोदरामयहेतुकानदानद्रव्यजन्यलक्षणानि निरूप्यन्ते -- . मूर्छादाहभ्रमतृष्णारुचिज्वराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम् । प्रकोपनिवर्तककषायतिक्तस्वादुरसविरसद्रव्यादनं पित्तप्रदेशव्याप्यसिरारन्ध्रमार्गगतपवनगतिविकारकमांसधातुशोष कं, पवनदोषप्रकोपजनकरसविरसातिरिक्तमांसधातुशोषकविरसद्रव्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया मांसधातुशोषकजन्यमांससारः पित्तोदरामयहेतुकः जठरानला. जीर्णधातुसारद्रव्यत्वात् । तेन मूर्छाप जायते । तद्धातुशोषवशात् दाहो भवति । धातुसारस्य इतरपदार्थस्पर्शनार्द्रमो भवति । तेन जठरानलस्थलनिरसनात् बाहःप्रज्वलनात् ज्वरो भवति । तत्सारातिप्रदर्शनात् तेन रागो भवति । मांसधातोश्च निर्गतरसत्वात् पैत्त्यं प्रतीयते । एतादृशलक्षणलक्षितः पित्तोदरामयोऽयमिति व्याख्यात । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347