Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir 196 आयुर्वेदसूत्रे ये बहबस्सन्ति तेषामप्युपकाराय भवन्ति, अनलभूतावयवाधिक्यद्रव्याधिक्यवन्त इति तत्रानेकसारवत्त्वस्य वक्तुं शक्यत्वात् तत्सर्वसारं पवनप्रकोपनिवर्तकं भवति । अनलद्रव्यभूतार्थस्य सर्वेभ्यो भूतेभ्यः आधिक्यात् तादृशमारतरवः सर्वभूतानामुपकाराय भवन्तीत्यर्थः॥ ननु यावद्भरुहः तत्तदामयनिवर्तकाः भूरुहद्रव्यत्वात् सम्प्रतिपन्नषत् देशसारौड्रल ? द्रव्यभेदेन तत्तजन्तूनां तत्तदोषावनाशकाः । कोचत्तरवः जगजीवनोपकारकाः । तस्य एकदा सर्व पदार्थज्ञानेन भवितव्यम् । तत्सर्वपदार्थज्ञानाभावेन निर्णेतुमशक्यत्वादित्यत आह--गगनाते । गगनद्रव्याधिकशब्दगुणोपलम्भकत्वं प्रमाणम् ॥ अत्र गगनद्रव्याधिकशब्दत्वं नाम देशदेहकालद्रव्यकर्मणां यथायथं द्रव्ययोगकरणस्य शास्त्रज्ञानाभावेऽपि आप्तोदीरितशब्दस्सर्वत्रापि प्रमाणम् । यस्मिन्देशे यत्र यत्र यत्प्रवर्तकं तच्छास्त्रमिति विज्ञाय यद्व्याधिनिवर्तकं. यद्दव्यं तदेव तद्भेषजमिति तत्र गगनादिकशब्दजातकार्यशानं प्रमाणमिति । यद्यपि यस्य कस्यचित्पदार्थस्य कस्यचिदामयस्य प्रतीकारत्वं बहुवादिसम्मताप्तोदीरितशब्द एव यत्र भासते तत्र गगनादिगुणोपलधिरेव प्रमाणमित्यर्थः । एवं पञ्चभूतोद्भवसारबद्रव्यं तत्तद्देशावच्छेदकभेदवशात् तत्तदेहावच्छेदकभेदवशात् तत्तत्कालावच्छेदकभेद्वात् इदं सर्वमालोच्य तत्सर्वमवलोक्य तत्सारद्रव्यं विज्ञाय भेषजं कार्यमिति । आयुर्वेदप्रतिपादितार्थतत्त्वज्ञानमेव निर्णीतमिति फलितार्थः॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347