Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
238
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
मन्दोष्णादिसमदोषाधिकाक्षीणवृद्धि गुणकास्थिमज्जा मेदोऽधिष्ठिताः ॥ ३६ ॥
मन्दगुणवत्त्वावच्छेदकपवनत्त्वं उष्ण गुणवत्त्वावच्छेदकपित्तत्वं तदितरदोष कफावच्छेदकं तत्क्षीणवृद्धिगुणाश्रयत्वम्, तथा सति मज्जाधातुपर्यन्तगतसकलसामग्री सान्निध्यं सम्पादयन् रोगाभिवृद्धिं कुर्वन् तद्रोगिणमन्त्यसन्निहितं करोतीत्यर्थः ।
ननु दोषाणां मज्जाधातुपर्यन्तं रोगावरोहणेन सकलधातुदोषसामग्रयां सत्यां पञ्चधातुगतप्राणोद्भवानां च वायूनां सं श्वाराभावत्वेन तच्छरीरं विहाय बहिः प्रदेशगतत्वात् स जीवः शरीरावतरितो भवति । दोषाणां कार्यकारित्वस्य तावन्मात्रेणैव चरितार्थत्वात् शुक्रधातुप्रवेशजकार्यकरणस्य प्रयोजकत्वाभावात् । तस्मात्सप्तधातुगणनस्य प्रायोजकत्वाभावेन व्यर्थ स्यादित्यस्वरसादाह - अदोषेति ।
अदोषधातुरसानुसारानुसरास्थिरसपचनचरम
धातुप्रचारकाः ॥ ३७ ॥
एतत्कार्य कारकस्य पचनत्वं दोषाणां चरमधातुप्रचारणत्वम् । प्रचरन्तीति प्रचारकाः । शुक्रधातुपोषककार्य शुद्धस्वादुरसादनहेतुकम् । न शोषककार्यम् । अदोषत्वं नाम अदोषधातुरसानुसारानुसरदोषप्रकोपकार्याभाववृद्धि कारकमित्यर्थः । उक्तमर्थमुपसंहरति-- भूतेति ।
भूतपूर्व पदार्थजातधातु हेतुभूतानलसमरसपचनविरुद्धार्थरसपाकयोगाद्विपर्ययः ॥ ३८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347