________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
196
आयुर्वेदसूत्रे
ये बहबस्सन्ति तेषामप्युपकाराय भवन्ति, अनलभूतावयवाधिक्यद्रव्याधिक्यवन्त इति तत्रानेकसारवत्त्वस्य वक्तुं शक्यत्वात् तत्सर्वसारं पवनप्रकोपनिवर्तकं भवति । अनलद्रव्यभूतार्थस्य सर्वेभ्यो भूतेभ्यः आधिक्यात् तादृशमारतरवः सर्वभूतानामुपकाराय भवन्तीत्यर्थः॥
ननु यावद्भरुहः तत्तदामयनिवर्तकाः भूरुहद्रव्यत्वात् सम्प्रतिपन्नषत् देशसारौड्रल ? द्रव्यभेदेन तत्तजन्तूनां तत्तदोषावनाशकाः । कोचत्तरवः जगजीवनोपकारकाः । तस्य एकदा सर्व पदार्थज्ञानेन भवितव्यम् । तत्सर्वपदार्थज्ञानाभावेन निर्णेतुमशक्यत्वादित्यत आह--गगनाते । गगनद्रव्याधिकशब्दगुणोपलम्भकत्वं प्रमाणम् ॥
अत्र गगनद्रव्याधिकशब्दत्वं नाम देशदेहकालद्रव्यकर्मणां यथायथं द्रव्ययोगकरणस्य शास्त्रज्ञानाभावेऽपि आप्तोदीरितशब्दस्सर्वत्रापि प्रमाणम् । यस्मिन्देशे यत्र यत्र यत्प्रवर्तकं तच्छास्त्रमिति विज्ञाय यद्व्याधिनिवर्तकं. यद्दव्यं तदेव तद्भेषजमिति तत्र गगनादिकशब्दजातकार्यशानं प्रमाणमिति । यद्यपि यस्य कस्यचित्पदार्थस्य कस्यचिदामयस्य प्रतीकारत्वं बहुवादिसम्मताप्तोदीरितशब्द एव यत्र भासते तत्र गगनादिगुणोपलधिरेव प्रमाणमित्यर्थः । एवं पञ्चभूतोद्भवसारबद्रव्यं तत्तद्देशावच्छेदकभेदवशात् तत्तदेहावच्छेदकभेदवशात् तत्तत्कालावच्छेदकभेद्वात् इदं सर्वमालोच्य तत्सर्वमवलोक्य तत्सारद्रव्यं विज्ञाय भेषजं कार्यमिति । आयुर्वेदप्रतिपादितार्थतत्त्वज्ञानमेव निर्णीतमिति फलितार्थः॥
For Private And Personal Use Only