Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 194 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे मपि संभवति । तस्मात्तन्निष्ठस्वादुरसस्य पवनप्रकोप निवर्तकस्थं कथं भवेदित्यस्वरसादाहतदिति । तत्पवननिवर्तकं सुभेषजम् ॥ ५८ ॥ जङ्गमशरीरजन्यस्वादुरस एव तच्छब्दार्थः । तज्जन्यस्वादुरसः पवनप्रकोपनिवर्तकः । सर्वशरीराणि पाञ्चभौतिकानि । यत्र पार्थिवद्रव्याधिक्यगन्धोपलब्धिर्दश्यते तत्रैव तजन्यस्वादुरसस्य पवनप्रकोप निवर्तकत्वात् । जलमात्रनिष्ठस्वादुरसस्य न ब्रूमः, जलस्य जडरूपद्रव्यत्वात् तस्य शरीराभावात् । ननु उष:पानविधौ शुद्धजलसेवनं सकलदोषनिवर्तकमिति शास्त्रे प्रतिपादितम्, अन्यथा तत्प्रतिपादकशास्त्रविरोधः स्यात् । सर्व जगत् जलेन विना जीवितुं न भवति समर्थम् । तस्य स्वभावेन "जीवनम्" इति नैघण्टुकैः नाम प्रतिपादितम् तस्माज्जलनिष्ठस्वादु· रसः पवनप्रकोप निवर्तको भवतीति यदुक्तं तन्न रोचत इति चेत् न, स्थावराणां च जीवनोपकारकत्वस्य जलद्रव्यस्योचि तत्वात् जलद्रव्यं जीवनं भवेत् । जङ्गमानां तु न तथा । तेषामपि अनलसंयोगजन्यसंस्कारात् जातजलनिष्ठस्वादुरसस्य पवनप्रकोपनिवर्तकत्वमित्युक्तत्वात् । तत्र उपःपानविधावपि हंसोदककर्मकरणविशिष्टजलं उषःपानविधौ प्रशस्तमित्युक्तत्वात् । इतरत्रापि अनलसंयोगजसंस्कारविशिष्टस्य जलस्य पवननिवर्त कत्वे अनलसंयोगत्वमुपाधिः । यत्रयत्र अनलसंयोगसंस्कारविशिष्टजलत्वं भासते, तत्रतत्र पवननिवर्तकत्वमपि संभवति । शुद्धशीतलगुणविशिष्टजलस्य पवनप्रकोपकारकत्वनियमात् । शैत्यगुणविशिष्टजल निष्ठस्वादुरसः न पवनप्रकोपनिवर्तक । तत्र श्रुतिवचनं प्रमाणं - " अग्निर्हिमस्य भेषजम्" इति । तनिवर्तकविधौ अनलसंयोग एवोपाधिरित्यर्थः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347