________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
162
आयुर्वेदसूत्रे
विवर्णत्वं च लक्षणं भवतीत्यर्थः । सर्वशरीरव्याप्यपवनस्य वि. कारग्रस्तत्वात् । सर्वशरीराङ्गवेदनाभावात् कथमेकदेशवेदना इत्याकांक्षायां यावद्विरसादनजन्यसारः यावत्सिराप्रदेशेषूपलभ्यते तत्रायं नियमः । शङ्कासमाधानं च कृतं ---सर्वशरीरसञ्चारितपवनस्य विकारस्य सर्वशरीरवेदनाभावशानमेव सिराप्रदेशसञ्चारात् तत्तदने नीरोगत्वं प्रतीयते । चिकित्साकार्य तत्तदङ्गेष्वेव तत्प्रतीकारद्रव्यादनेन तद्विरुद्धरसादनजन्यदोषनिवृत्तेः न दोषप्रकोपं निराकृत्य सुखं भूयादित्यर्थः ।
. केचिद्विरुद्धरसजन्याद्भिः सिराभ्यन्तररन्ध्रमार्गेषु पूर्णप्रदेशत्वात् विवर्णित्वं विरसास्यत्वं च ज्ञाप्यते । तेन पवनप्रकोपनिवर्तकरसविरसादनजन्यमुदरामयमिति ज्ञातुं शक्यत एवे. त्यर्थः । पित्तोदरामयहेतुकानदानद्रव्यजन्यलक्षणानि निरूप्यन्ते -- . मूर्छादाहभ्रमतृष्णारुचिज्वराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम् । प्रकोपनिवर्तककषायतिक्तस्वादुरसविरसद्रव्यादनं पित्तप्रदेशव्याप्यसिरारन्ध्रमार्गगतपवनगतिविकारकमांसधातुशोष कं, पवनदोषप्रकोपजनकरसविरसातिरिक्तमांसधातुशोषकविरसद्रव्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया मांसधातुशोषकजन्यमांससारः पित्तोदरामयहेतुकः जठरानला. जीर्णधातुसारद्रव्यत्वात् । तेन मूर्छाप जायते । तद्धातुशोषवशात् दाहो भवति । धातुसारस्य इतरपदार्थस्पर्शनार्द्रमो भवति । तेन जठरानलस्थलनिरसनात् बाहःप्रज्वलनात् ज्वरो भवति । तत्सारातिप्रदर्शनात् तेन रागो भवति । मांसधातोश्च निर्गतरसत्वात् पैत्त्यं प्रतीयते । एतादृशलक्षणलक्षितः पित्तोदरामयोऽयमिति व्याख्यात ।
For Private And Personal Use Only