________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
161
तावत्सिरागतप्रदेशभेदात् श्वयथुबोधकम् ॥२२॥
'वातप्रदेशावलम्बकसिराविकारे सति उक्तरीत्या वातोदरामयो जायते । तथा पित्तप्रदेशावलम्बकसिराविकारे सति पित्तोदरं जायते। कफप्रदेशावलम्बकसिराविकारे सति कफोदरं जायते। तत्तदोषहेतुकसिराणां कार्य एव द्वन्द्वदोष इति दोषद्वयजन्यास्त्रयः-पवनपित्तदोषजन्योदरामय एकः । कफपवनदोषजन्योदरामय एकः । पित्तकफजन्योदरामय एकः । त्रिदोषजन्योदरामय एकः। सर्व मिळित्वाऽष्टविधरोगा जाताः ।
तावत्सिरागतेति-तत्तद्विरुद्धरसीवरसजातसिरामार्गगत. पवनगतितिरोधानादनले मन्दे सति तेनाजीर्णत्वं तदवच्छेदकम् । तत्तत्प्रदेशभेददोषत्रयाश्रयादुदररोगस्य हेतुबोधकत्वमेव तत्तदवच्छेदकं भवतीत्यर्थः । पित्तप्रदेशभेदस्थितसिराविकारः कथं ज्ञातुं शक्यते पित्तोदरामयज्ञाने सति तस्य निवर्तकेन निवर्तयितुं शक्यत्वादियाशयं मनसि निधायाहपवनेति।
पवनप्रकोपहेतुकरूक्षातिशीतललध्वतिवेदनारुचिविवर्णविरसास्यतन्द्रामवृंदाहभ्रमतृष्णाज्वरातिसाराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम्॥२३॥
रूक्षगुणत्वं-सिरामार्गरन्ध्रेषु पवनातिंगत्या तत्तदङ्गेषु उ. ष्णोपलब्धिरुत्पद्यते । तत्र तस्य पवनविकारस्य रूक्षत्वमवच्छेदकम् । यत्र पवनस्य अल्पगत्या सिरामार्गरन्ध्रेषु पवनगति. रोधनं दृश्यते तत्रातिवेदना जायते । तद्वदेव विरसास्यत्वं AYURVEDA
21
For Private And Personal Use Only