SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 आयुर्वेदसूत्रे विरसद्रव्यादनाजीर्णजन्यसिरामार्गस्थितपवनविमत्या सिरारसातिप्रस्रवणादजीर्णाद रुदरं जायते ॥२१॥ विरसद्रव्यादनजन्यपित्तोदरस्य हेतवो वक्तव्याः । कषापरसविरसद्रव्यादनेन वा तिक्तरसविरसद्रव्यादनेन वा पित्तप्रकोपो भवति । अनलाजीर्णद्रव्यत्वात् । तन्निवर्तनं लङ्घनादेव भाव्यम् । यत्र कषायतिक्तस्वादुरसविरसद्रव्यादनमुपलभ्यते तत्र पित्तोदरामयोत्पत्तिः। तत्र सूत्रवचन कषायतिक्तमधुराः पित्तमन्येषु कुप्यते । इति ॥ अन्योष्वति कषायतिक्तस्वादुरसवत् पित्तप्रकोपानवतकम् । तद्विरसाः पित्तप्रकोपकारकाः । एतत्त्रयाणां मध्ये एकरसद्रव्यादनजन्यपित्तप्रकोपस्य निवर्तकं तद्विरसान्यरसादनम् । न तव्यतिरिक्तशुद्धरसाः उदरामयहेतुकाः पित्तप्रकोपनिवर्तकरसविरसा इति "पित्तमन्येषु कुष्यते” इत्येतद्वचनस्य तात्पर्यम् । कषायतिक्तव्यतिरिक्तस्वादुरसवयतिरिक्तरसविरसद्व्यादन उदरामयहेतुकं जठरानलाजीर्णद्रव्यादनत्वात् यन्नैवं तन्नैघं यथा घटः । एकरसविरसद्व्यानं नोदरामयहेतुकं जठरानलजीर्णद्रव्यादनत्वात् इत्यनुमानप्रमाणेन कषायतिक्तस्वादुरसविरसद्रव्यादनमेलनस्य उदरामयहेतुकत्वं सुप्रसिद्धमिति भावः । ननु अष्टविधोदरामयाना कारणीभूतद्रव्याणि षड्सविरसद्रव्याणि । लोके एतवयतिरिकानामभावेन इतररोगाणां कारणीभूतद्रव्याभावात् सर्वेषामप्युदरामयप्रसङ्ग एव स्यादित्यस्वरसादाह-तावदिति। For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy