Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 11
________________ औष्ट्रिकमतोत्सूत्रनंष्ट्वा गतस्त [त्र] त औष्ट्रिक इति सार्थ लोकदत्तं नाम । उक्तं चोत्सूत्रकन्दकुद्दाले पञ्चमविश्रामे - जिनदत्तक्रियाकोशच्छेदोऽयं यत्कृतस्ततः । सङ्घोक्तिभीतितस्तेऽभू-दारुह्योष्ट्रं पलायन ॥१॥ मिति । . तथा स्वमतप्रवृद्धये जिनदत्तेन चामुण्डिकाऽऽराधिता, ततश्चामुण्डिक इत्यपि सार्थकं लोकदत्तं नाम । उक्तं च उत्सूत्र० पञ्चमविश्रामे'सूर्याभनाट्यवत् ते किं, नर्त्तक्यो न जिनाङ्गणे । चैत्यानाऽऽयतनं यत्तद्युक्तं चामुण्डिकस्य च' ॥२॥ इति तथा तृतीयं 'खरतर' इति नाम यादृच्छिकम् । पृच्छतां लोकानां पुरस्तात् जिनदत्तेन स्वयमेवाऽऽविष्कृतम् । यथा ऽञ्चलिकेन विधिपक्ष इति, त्रिस्तुतिकेन आगमिक इति च नाम लोकदत्तनाम्ना लज्जया स्वयमेव निर्हेतुकम् अर्थशून्यं च प्रकटीकृतम्, तथैतदपि, न पुनरिदमौष्ट्रिकचामुण्डिकनामद्वयवत् अतिशयेन खरः खरतर इति तन्मताभिप्रायेण लोकदत्तं सार्थकं [वा] च । क्वाप्युत्सूत्रकन्दकुद्दालादावेतन्नाम्नः सहेतुकसार्थकताया अदर्शनात् । ___ ननु यादृच्छिकनाम्नः कोऽर्थ ? इति चेत् । श्रृणु, निर्हेतुकं स्वमतिकल्पितं सङ्केतरूपं नाम यादृच्छिकमुच्यते । यथा अदेवदत्तस्यापि देवदत्त इति तृतीयं यादृच्छिकनाम । __अथ कश्चित्तन्मतमवलम्ब्य वदति-भो विचक्षण ! औष्ट्रिकपट्टावल्यां औष्ट्रिककृतषष्टिशतकवृत्त्यादौ च खरतरनाम्नः सहेतुकसार्थकता कथिताऽस्ति, तदा तं प्रति वाच्यं-भो देवानुप्रिय ! नहि कोऽपि विपश्चित् सम्यग् धिया चामुण्डिकशास्त्रमवलोक्य सत्यतया श्रद्दधाति, यत्र औष्ट्रिककृताऽऽधुनिकग्रन्थेषु क्वचिच्चतुरशीतिमठपतीन् जित्वा

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104