Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 14
________________ प्रदीपिका ॥ खरतरमतोत्पत्तिस्तु विक्रम सं. १२०४ वर्षे जिनदत्ताचार्यादेव जाता, उक्तं च उत्सूत्रकन्दकुद्दाले हुं नंदेन्द्रियरुद्रकाल ११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रास्णकाल १२०४ औष्ट्रिकभवो विश्वार्ककालेऽ १२१३ ञ्चलः। __ षट्व्यर्केषु १२३६ च सार्द्धपौर्णिम इति व्योमेन्द्रियार्के १२५० पुनः, काले त्रिस्तुतिको मतद्वयमयः पञ्चापि पक्षा अमी ॥१॥ अत्र कश्चिद्वदति-भो ! भवतां ग्रन्थेषु सं. १२०४ वर्षे या खरतरोपत्तिलिखिता, सा रुद्रपल्लीयखरतरोत्पत्तिलिखिता भविष्यति, तदा तं प्रत्येवं वाच्यं-भो ! देवानुप्रिय ! रुद्रपल्लीयमतोत्पत्तिस्तु खरतरपट्टावल्यां तावत्सं. १२०५ वर्षे जिनशेखरतो लिखिताऽस्ति, खरतरमतोत्पत्तिस्तु अस्मद्ग्रन्थे सं. १२०४ वर्षे जिनदत्ताचार्यादेव लिखिताऽतो न किमऽप्यनुपपन्नम् । किञ्च-खरतरपट्टावल्यां जिनशेखरतो रुद्रपल्लीयमतोत्पत्तिः सं.१२०५ वर्षे लिखिता, साऽपि रुद्रपल्लीयग्रन्थैः सह विरुद्धत्वादसत्याऽवसातव्या । यतस्तदीयग्रन्थे जिनशेखरपट्टे पद्मचन्द्रस्तत्पट्टे विजयचन्द्रः तत्पट्टे अभयदेवसूरिस्तस्मात् रुद्रपल्लीयमतोत्पत्तिः । उक्तं च रुद्रपल्लीयसङ्घतिलकसूरिकृतायां सम्यक्त्वसप्ततिकावृत्तौ'पट्टे तदीयेऽभयदेवसूरि-रासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीहरुद्र-पल्लीयगच्छः सुतरामतुच्छः॥१॥इति । एवं तन्मतकृतदानोपदेशमालावृत्तावपीति । अथ यदि कश्चिदविपश्चिदेवं वदति-भवतु १२०४ वर्षे जिनदत्तादेव खरतरोत्पत्तिस्तथाप्ययं नवाङ्गीवृत्तिकर्ता तत्पूर्वजो भवत्येव, तदीयपट्टावल्यामेव लिखितत्वात्, तदा तं प्रति वाच्यं-भो देवानुप्रिय ! पूर्व मलयगिरि

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104