Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
प्रदीपिका ॥
२७ कथं ? इत्याह-निष्कारणे-निर्भये निराबाधे वा सति, साधवः पुरतः स्थिताः संयत्यस्तु मार्गतः-पृष्ठतो गच्छन्ति, कारणे तु समकं वा साधूनां पार्श्वतः, पुरतो वा-साधूनामग्रतः स्थिताः संयत्यो गच्छन्तीति ॥५॥ इति वितथवस्तुप्ररूपणारूपमुत्सूत्रमुक्तं, तदुक्ते च चतुर्द्धाऽप्युत्सूत्रमुक्तमिति । एवमन्यान्यपि गोचर्यादौ पटलकादिग्रहणनिषेधादिन्यूनक्रियाप्ररूपणादीन्युत्सूत्राणि श्रीओघनिर्युक्त्यादिभिः सह विरूद्धानि स्वयमेव बोध्यानीति ।
इतिश्रीमत्तपागणनभोऽङ्गणनभोमणिश्रीविजयदानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामौष्ट्रिकमतोसूत्रोद्घाटनपूर्वकमागमसाक्षिकं तत्तिरस्करणलक्षणो द्वितीयोऽधिकारः ॥२॥
अथ दुर्जनवचनानि श्रुत्वाऽहंदादिहीलनया परित्यक्तसम्यक्त्वानां पुनः सम्यक्त्वारोपणप्रकारः कथ्यते-तत्र तावत् सम्यक्त्वपरित्यागं भेदत आह । सम्यक्त्वपरित्यागस्तु द्विधा-आशातनाजन्यः कषायाद्युदयजन्यश्च । तत्र यद्यपि कषायाद्युदये सत्येवाऽऽशातनासम्भवादेक एव प्रकारो युक्तस्तथापि गौणमुख्यभेदेन भेदस्य कथनात् । यतः केचिदाऽऽशातनां पुरस्कृत्य सम्यक्त्वं केचिच्च कषायाद्युदयमिति । आशातना चाहंदादीनामवर्णवादादिरूपा, सा च अर्हदादिभेदेनानेकधा बोधिदुर्लभताहेतुश्च । उक्तं च स्थानाङ्गे___ 'पंचहि ठाणेहिं जीवा दुल्हबोहिताए कम्मं पकरंति, तं. अरिहंताणं अवण्णं वदमाणे, अरिहंतपण्णत्तस्स धम्मस्स अवण्णं वदमाणे, आयरियउवज्झायाणं अवण्णं वदमाणे, चाउवण्णस्स संघस्स अवण्णं वदमाणे, विविक्कतवबंभचेराणं देवाणं अवण्णं वदमाणे'त्ति । ____ अत्र यद्यपि एकस्मिन्नाशातिते सर्वेऽप्याशातिता भवन्ति, तथापि गौणमुख्यभेदेन भेदोऽवगन्तव्यः । तत्र कश्चित्कस्यचिदाशातको
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104