Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 35
________________ औष्ट्रिकमतोत्सूत्रकिन्तूत्सूत्रकन्दकुद्दालादयः प्रमाणमेव, परं मयोक्तं यदुत्सूत्रकन्दकुद्दालादि न प्रमाणं, तदसत्यमिति वक्तव्यं स्यात् । तथा च तव गलपादुका, सिद्धं चास्माकं समीहितं, त्वयाप्युत्सूत्रकन्दकुद्दालादेः प्रमाणतायाः कथनात् । यच्चोक्तमुभयोरपि यत्र प्रशंसा, सोऽस्माकं मान्यो ग्रन्थ इति । तदप्यसङ्गतम् । यत उभयोरपीत्यत्र उभयोरविरुद्धयोविरुद्धयोर्वा ? प्रथमे तावदिष्टापत्तिरेव, चतुर्विंशतिजिनप्रवचनानामिवाविरुद्धानामनेकेषामप्यभेदबुद्धया प्रशंसायाः स्वीकारात् । द्वितीये मार्गोन्मार्गगामित्वेन विरुद्धयोः स्वपरयोः प्रशंसा लोकप्रतीत्यापि बाधिता, न हि लोकेऽपि कोऽपि मूर्खमुख्योऽपि विरुद्धयोर्वस्तुनोस्तुल्यतां जानाति वक्ति वा, विषामृतयोस्तुल्यज्ञाने विषस्यापि भक्षणप्रसङ्गात् । किञ्चैवमप्युत्सूत्रकन्दकुद्दालादेस्तावत्प्रमाणता स्वीकर्त्तव्यैव, एकास्याऽपि निन्दायास्त्वयैव निराकरणादिति तवोभयथापि पाश इति रहस्यम् । अथ कश्चित्सुहृद्भावेन पृच्छतिननु भो ! स्वपक्षस्थापनपरपक्षोत्थापनाभ्यां सर्वेषां तुल्यत्वेऽयं मार्गः सत्योऽयं चासत्य इति कथं निर्णेतुं शक्यः ? तदा तं प्रति वाच्यंभो ! सुहृत् ! त्वं लौकिकव्यवहारमपि किं न जानासि ?, नहि लोकेऽपि कोऽपि वस्तुपरीक्षणं विक्रेतृवचोऽधीनमनुमन्यते, किन्तु निपुणग्राहकपुरुषाधीनम् । अन्यथा कृत्रिमाकृत्रिमवस्तुविक्रेत्रोस्तुल्यमूल्योपादित्सयोस्तुल्यवचसोर्विश्वासे वस्तुपरीक्षणं दत्ताञ्जलीव भवेत् । एवं ग्रन्थपरीक्षणमपि न ग्रन्थकर्तृवचोऽधीनं, किन्तु शुद्धमार्गग्राहकनिपुणपुरुषाधीनमिति बोध्यं । ननु तत्परीक्षणं कथं भवतीति चेत्, श्रृणु, ग्रन्थकर्ता तावद् द्विविधः, सम्यग्दृष्टिमिथ्यादृष्टिश्च । तत्र सम्यगविपरीता यथार्थवस्तुग्राहिणी दृष्टिः दर्शनं ज्ञानं च यस्येति व्युत्पत्त्या सम्यग्दृष्टिः मार्गमुन्मार्गं च यथार्थं भाषमाणः 'ज्ञानदर्शनचारित्राणि मोक्षमार्ग' इति वचनात् ज्ञानदर्शनचारित्रात्मकं

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104