Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्रऽन्तर्भावनीयः, किन्तु जैनप्रवचनस्पर्शित्वात् जैनमार्गे इति वाच्यम् । तस्य बौद्धादिवत्प्रवचनबाह्यत्वात् । उक्तं च स्थानाङ्गवृत्तौ___ 'समुद्धातादिकं जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति, यथा निह्नवा' इति । न चैवं जैनप्रवचनबाह्यं निह्नवादि कुप्रवचन[ मुन्मार्ग* ]मुन्मार्गतया ब्रुवाणः परपरिवादी भविष्यतीति शङ्कनीयं, तीर्थकरादीनामपि तथैव प्रसङ्गात् । प्रत्युतोन्मार्ग मार्गतया ब्रुवाणो मृषाभाषित्वेन परपरिवादी स्यात् । उक्तं च भगवत्यां 'परपरिवाए'त्ति । एतत्पदलेशस्य वृत्तिरियं-'परेषां विप्रकीर्णगुणदोषवचनं परपरिवाद' इति । एतेनात्मीयमार्गनिन्दको निरभिमानित्वान्मान्यस्तदुक्तमार्गश्चाङ्गीकारार्ह इति कश्चित्प्रलपति, सोऽपि निरस्तः । यतः स्वयमुपात्तं मार्गमुन्मार्गतया प्रकाश्य हीलयन् तन्मार्गाऽऽश्रितानां सर्वेषामपि हीलको भवति । तथा च मार्गबहिर्भूतः सन् यो मार्गहीलकस्तदपेक्षया मार्गान्तर्भूतः सन् मार्गहीलको मार्गाऽऽसक्तानामपि सन्देहोत्पादकत्वेन प्रवचनोपघातित्वान्महापातकी स्वगृहकूपपातन्यायेन स्वस्मिन्नेवोत्सूत्रभाषित्वान्मिथ्यात्वमापन्नः सम्यक्त्वप्राणरहितो भवति । एवमुन्मार्गमाश्रितः सन् य उन्मार्ग मार्गतया कथयति, तदपेक्षया मार्गाश्रितः सन्नुन्मार्ग मार्गतया कथयन् महापातकी, परगृहकूपपातन्यायेन परस्मिन्नेवोसूत्रभाषित्वात् मिथ्यात्वमापन्नः सम्यक्त्वप्राणरहितोऽवसातव्यः । एतेन गम्भीराचार्यधार्यान् गम्भीरार्थान् छेदग्रन्थान् पुरस्कृत्य मूर्खपर्षदि प्रवचनैकहीलनपरायणो मूर्खचक्रवर्ती यत्तत्प्रलापी पाशचन्द्र इव यः कश्चित्संप्रत्याबालगोपाङ्गनानामपि प्रतीतिविषयीभूतज्ञानादिरत्नरत्नाकरश्रीमत्तपागणहीलनाऽभिप्रायेणोत्सूत्रकन्दकुद्दालं पुरस्कृत्यात्मनो मूर्खचक्रवर्तित्वमाविष्कुर्वन् मूर्खपर्षदि पूत्कुरुते अहोश्चिदुत्सूत्रकन्दकुद्दालेऽष्टमविश्रामे
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104