Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 46
________________ ४३ प्रदीपिका ॥ , व्याधिरुपशाम्यति नवीनश्च यावज्जीवं नोत्पद्यते ४ इति । तत्र कदाग्रहं विमुच्य विचार्यं चतुर्णां मध्ये किं वैद्यकल्पो जिनदत्ताचार्य इति ? | परिशेषात् प्रथमवैद्यकल्पस्तर्हि त्वन्मुखेनैव त्वत्तीर्थकृतश्चामुण्डिकस्यागीतार्थचक्रवर्त्तित्वं सिद्धमिति । एतेन स्त्रीजिनार्चानिषेधो न दूष्यो, गच्छसामाचारीत्वादित्यपि निरस्तं प्रवचनोपघातिन्याः प्रवृत्तेरवश्यं तिरस्कार्यत्वात् । या च गच्छान्तरीया सामाचारी न दूष्या सा प्रवचनाऽविरोधिनी मन्तव्या न तु प्रवचनोपघातिनी । उक्तं च भगवत्याम्- 'अत्थि णं भंते ! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेदेति' इत्यालापके 'पावयणंतरेहित्ति पदलेशस्य वृत्तौप्रवचनमधीते वेत्ति वा प्रावचनः - कालापेक्षया बह्वागमः पुरुषः तत्रैकः प्रावचनिक एवं कुरुतेऽन्यस्त्वेवमिति, किमत्र तत्त्वमिति ? । समाधिश्चेह चारित्रमोहनीय-क्षयोपशमविशेषेणोत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽप्रमाणमागमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । अन्यथा लुम्पाकपाशचन्द्रादीनामपि स्वमतिकल्पितसामाचारीणां प्रामाण्यं स्यात् । तच्च तवाऽप्यनिष्टं । किञ्च केवलं न जिनदत्तस्य स्त्रीजिनार्चानिषेधोत्थमेव पातकं, किन्तु तीर्थकरगणधरादीनामप्युत्सूत्रभाषित्वकलङ्कदानेन महापातकित्वमपि । यतो जिनदत्तेन स्वयमेव उत्सूत्रपदोद्घाटने 'पूएइ मूलपडिमंपि साविआ चेइवासि सम्मत्तं । गब्भापहारकल्लाणगंपि न हु होइ वीरस्स' ॥१॥ त्ति गाथया स्त्रीजिनार्चाप्रकाशका उत्सूत्रभाषिण उक्ताः । तीर्थङ्करगणधरादयश्च स्त्रीजिनार्चाप्रकाशकाः । अतस्तेषामप्युत्सूत्रभाषित्वकलङ्कदानेन स्वयमेवोत्सूत्रभाषी जात इति महच्चातुर्यं चामुण्डिकपृष्ठविलग्नानामेवेति । किञ्च सोमचन्द्रापरनामा जिनदत्तस्तावदेतादृश उत्सूत्रभाषको भवति तद्युक्तमेव । यतो बाल्यावस्थायां प्रव्रज्यादिन एव दिव्यानुभावादिव स्वकीयं स्वरूपं स्वमुखेनैवाऽयं

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104