Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 47
________________ ४४ औष्ट्रिकमतोत्सूत्रज्ञापितवान् । परं मोहवशेन तद्गुरुणा सम्यग् नावगतं, प्रवचनस्य भाविबाधाया अवश्यम्भावात् । तथाहि-प्रथमव्रतदिन एव सोमचन्द्रमुनिर्नीतोऽस्ति बहिर्भूमौ सर्वदेवगणिना, अज्ञानत्वाद् उद्गतक्षेत्राणि तेन त्रोटितानि, ततः शिक्षानिमित्तं रजोहरणं मुखवस्त्रिका च गृहीता सर्वदेवगणिना, भणितश्च-व्रते गृहीते किं क्षेत्राणि त्रोटयन्ते तद् गच्छ स्वगृहं, ततस्तदैवोत्पन्नप्रतिभेन तेनोक्तं-युक्तं कृतं गणिना परं मम चोटिका आसीत्तां दापय, येन गच्छामि इत्युक्ते गणेराश्चर्यमभूत् । अहो ! लघोरपि कीदृग् सदुत्तरत्वमेतस्य ? किं सम्प्रति प्रतिवचनं दीयते ? इत्यादिजिनदत्तवर्णनं सार्द्धशतकवृत्ताविति । तत्र उद्गतक्षेत्रदेशस्य त्रोटनेनाहं धर्मबीजाकरितस्य सङ्घक्षेत्रस्य देशेन त्रोटको भविष्यामीति ज्ञापितं, रजोहरणमुखस्त्रिकोद्दालने युक्तं कृतमिति भाषमाणेनेयं- प्रव्रज्या प्रवचनस्य मम च न श्रेयसे भविष्यतीति ज्ञापितं, परं मम चोटिका आसीत्तां दापय येन गच्छामीत्यनेन मम गृहवास एवं श्रेयानिति सूचितमित्येवं विचारस्थाने सदुत्तरदातेति प्रशंसितं । न च बालचेष्टत्वान्न दोष इति शङ्कनीयं, बाल्यावस्थाचेष्टयैव वृद्धावस्थाचेष्टाया अनुमानात् ! उक्तं च 'पीऊण पाणि सरवराण पिट्टि न दिति सिंहिडिंभा । होही जाण कलावो ताणं चिअ एरिसा बुद्धी ॥१॥ अत एव श्रीमहावीरशिष्येणातिमुक्तकेन वहमाननिबद्धजले जलपात्रं मुक्त्वा भो लोका ! मदीयां [ नावं] तरन्तीं पश्यंत्विति चेष्टयाऽऽत्मनस्तद्भव एव संसारोत्तरणं सूचितं । या च चेष्टा न दोषसूचिका न च गुणसूचिका, सा सर्वबालसाधारणी बोध्या । न चैवमतिमुक्तकस्यापीयं साधारणी चेष्टा भविष्यतीति शङ्कनीयं, प्रव्रजितबालानामसाधारण्यादेव तस्मात्प्रव्रजितबालाकानां मध्ये दोषसूचिका जिनदत्तस्यासाधारणी चेष्टा बोध्येति जिनदत्तः चर्चितः ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104