Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 102
________________ प्रदीपिका निषेधः६॥ तन्मते भणितः, श्रावकप्रतिमाधर्मो व्युच्छिन्नोऽस्तीति तद्वचनं चामुण्डिवचनं७ ॥४॥ आचामाम्लप्रत्याख्याने, गृहिण इति गम्यं, द्रव्यद्वयाधिकानामर्थाद् द्रव्याणां ग्रहणपरिहरणं८, ‘पोषधिकग्लानानां' पोषधिकानां मध्ये ग्लानाअसमर्थाः क्षुधं सोढुमशक्ता इति यावत् तेषां भोजनप्रतिषेधनं च कृतं१, पौषधिकश्रावकाणां 'जिनेन' तीर्थकृता भणितं त्रिकालदेववन्दनकमस्ति, तत्र प्रातः सन्ध्यायां चेत्युभयं त्यक्त्वा, चैव एवकारार्थे, मध्याह्ने एव देववन्दनकं१० ॥७॥ आचार्य मुक्त्वा न युज्यते प्रतिष्ठाप्रमुखं महःकृत्यं महोत्सवकृत्यं११, आदिशब्दान्मालाकोपणादिपरिग्रह१२ इत्यादि न्यूनक्रियारूपमुत्सूत्रं ज्ञेयम्, आदिशब्दाद्गोचर्यादौ पटलकग्रहणनिषेधादिकं१३ मन्तव्यं ॥८॥ अथाधिकक्रियारूपमुत्सूत्रं, तथाहि-रयणीपोसहिअत्ति विभक्तिलोपाद्रजनीपोषधिकेन रात्रिपश्चिमप्रहरे सामायिकं कर्त्तव्यमिति तेन मूढेन भणितं१ ॥९॥ सामायिकमुपलक्षणात्पोषधं च कुर्वतः श्राद्धस्य नमस्कारत्रयपूर्वकं दण्डकोच्चरणमर्थात् त्रिवारमिति ॥२, यतेः गृहिण इवोपधानोद्वहनमिहाधिकं ३, उपलक्षणात्प्रतिदिवसं विशेषत: पाक्षिकचातुर्मासादिपर्वदिवसेषु च जलच्छटाक्षेपादिना शौचाचारद्यपि बोध्यम्४ ॥१०॥ अथायथास्थानक्रियारूपमुत्सूत्रं दुःस्थमतेवराकमते वर्त्तत इति गम्यं, तथाहि-सामायिकं कृत्वा ईर्यापथिकीप्रतिक्रमणं१, अयथास्थानत्वं च स्वस्थानपरावृत्त्या भवति, तथाहि-'ईर्यायाः स्थानं सामायिककरणात्पूर्वसमयः, सामायिकस्य च स्थानमीर्याप्रतिक्रान्त्यनन्तरः समयः, तयोर्विपर्ययत्वं१ ॥११॥ पाक्षिकपाते पूर्णिमायां पाक्षिकप्रतिक्रमणं, अयथास्थाने ज्ञेयमिति गम्यं२, वृद्धौ च प्रथमतिथि: पाक्षिकमित्येतस्य खरतरस्य कुविकल्प:३ ॥१२॥ श्रावणमासवृद्धौ श्रावणमास एव ‘पज्जुसवणं'ति पर्युषणापर्व४ 'अपि:' एवार्थे

Loading...

Page Navigation
1 ... 100 101 102 103 104