Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
चिकं वा सामायिकग्रहणाचकं तु पूविधप्रसङ्गेन
प्रदीपिका ॥
अथ स्त्रीस्वरूपं चर्च्यते -
भो ! चामुण्डिक ! मानुषी स्त्री जिनप्रतिप्रतिमापूजाऽर्हा न वा?, प्रथमे तावदुत्सूत्रपदोद्घाटनकुलं कुर्वन् जिनदत्तः पीतमदिर आसीत्, येन स्त्रीजिना प्ररूपका उत्सूत्रभाषिण इति कथितवान् । द्वितीये, कुतो न योग्या ?, अपावित्र्यादिति चेत्तर्हि तस्यास्तदपावित्र्यं सार्वदिकं कादाचित्कं वा ?, आद्ये, ज्ञानाध्ययनाध्यापननमस्कारगणनप्रतिक्रमणकरणपौषधसामायिकग्रहणसाधुदानादि सर्वमपि धर्मकृत्यं स्त्रीणामुच्छे[च्छि* येत । कादाचित्कं तु पुरुषाणामपि तथाविधाऽपावित्र्यसम्भवेन औदारिकशरीरिमात्रस्य निषेधप्रसङ्गेन तवापि कथं धर्मोपदेशकत्वमित्यत्यन्तमासमञ्जस्यमिति स्त्रीस्वरूपं चर्चितम् ॥
भो ! जिनदत्तापत्य ! स्त्रीपूजिताः प्रतिमा अपूज्या अवन्दनीयाश्च भवन्ति उत तासां विनाशो भवंति ?, प्रथमे, तावत्तनिश्रितार्हदाऽऽलये प्रवचनपरमार्थानभिज्ञास्त्वत्समुदायव्यतिरिक्ताभिर्मुग्धस्त्रीभिः क्रियमाणा जिनपूजा कथं न निषिध्यते ? न च निषिध्यत एव, प्रत्यक्षबाधात् । किञ्च-अस्मत्प्रतिष्ठितचैत्यालयेषु चैत्यवन्दनार्थं तव प्रवेशो न युक्तः । तत्र यथेष्टं स्त्रीभिः पूजायाः क्रियमाणत्वात् । ननु युष्मादृग्भीत्या तत्राऽऽगम्यत इति चेत्, अहो ! देवानुप्रिय ! अस्मच्चैत्यालयाऽऽगमनमाश्रित्यास्माभिस्तव नामापि न स्मरिष्यते । एतद्विषयेऽस्माकं शपथ एवेत्यवेहि । न चैतद्विषयेऽस्माकं दोदूयापि, प्रत्युत त्वय्यनुकम्पापरायणानामस्माकं प्रीतिरेव । ननु कथमनुकम्पेति चेत्, श्रृणु-तत्राऽस्मदुपदेशविदितप्रवचनपरमार्थाभिर्दक्षस्त्रीभिः क्रियमाणामहत्पूजां दृष्ट्वा तन्निन्दापरायणस्य भगवत्पूजावैरिणस्तत्राऽऽगतस्य तव नरकादिहेतुस्तीव्रकर्मबन्धो भवति, तद्धेतुनिवारकाश्च वयं त्वय्यनुकम्पावन्त एवेति तात्पर्यम् । द्वितीये, तावत् प्रत्यक्षबाधः । न हि स्त्रीभिः पूजितानां प्रतिमानां विनाशो दृश्यते, किन्तु प्रागुक्त
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104