Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
प्रदीपिका ॥
४१
बहुश्रुतैर्निषेधः कर्त्तव्यः' इति क्वापि श्रुतेऽनुपलम्भात् । प्रत्युताकृतानामविधिकृतानां चाऽवश्यधर्मकृत्यानां प्रायश्चित्तं प्रतिपद्य पुनस्तत्र प्रवर्त्तितव्यमित्यनुज्ञाया दर्शनात् । अन्यथाऽनाभोगवशात् त्वदाशातकैस्तद्भक्तैरपि त्वं दूरतस्त्याज्यः इति महत्सङ्कटे पतनं तवैवेति । नन्वित्थं स्त्रीणां प्रायश्चित्तमेव जिनदत्तेन दत्तमिति चेत्, अहो ! श्रुतागमव्यवहारशून्यस्य चामुण्डिकस्य तादृशप्रायश्चित्तदानं युक्तमेव । यद्येतादृशप्रायश्चित्तं नाऽदास्यत् कथमज्ञास्यत्तस्याऽज्ञचक्रवर्त्तित्वम् ? ।
मुक्खो ताव महग्धो मोणं काऊण सयलमज्झमि । जाव न [ खसर ]प्फस[ बप्पसषक्स ]बसरखसप्फसखसफसं कुइ ॥१॥
इति वचनात् । एवंविधप्रायश्चित्तदानस्य हृदयशून्यजिनदत्तमन्तरेण कस्याप्यसम्भवात् । न हि प्रवचने क्वाप्येतादृशप्रायश्चित्तं दृश्यते, अन्यथा प्रमादादिवशात् प्रतिमाविनाशादिलक्षणाऽऽशातनायाः पुरुषाणामपि दृश्यमानत्वेन तथाविधप्रायश्चित्तदाने मनुष्यमात्रेणापि प्रतिमास्पर्शः कर्त्तव्यो न स्यात् । तथा च ब्रह्मव्रतचारित्रादिभङ्गे तज्जातीयानां तन्निषेधप्रसङ्गेन तीर्थमात्रस्याऽप्युच्छेद इत्यभिनवस्तीर्थकृत्त्वद्गुरुर्येन स्वगलपाशोऽपि नाऽज्ञायीति । नचाऽयं केवलं शास्त्राऽनभिज्ञ एवासीत्, किन्तु लोकव्यवहारमपि न ज्ञातवान् । न हि लोकेपि कोपि वातादिरोगविशेषेण पथि स्खलितं नरं दृष्ट्वा तत्र मार्गे तज्जातिमात्रगमनं निषेधति, किन्तु उपकारी कश्चित् तं पुरुषं प्रगुणीकृत्य यथाशक्तिविधिना तस्मिन्मार्गे प्रवर्त्तयति । नवा कोपि भाविमालिन्यादिशङ्कया जिनदत्तमन्तरेण स्त्रीपुरुषान् वस्त्राणि त्याजयति । किञ्च श्रुतव्यवहारी परम्परागतमन्यथा प्रवर्त्तयन् श्रुतमनसृत्य तत्कालीनबहुश्रुतसम्मतमेव प्रवर्त्तयति, यथा पञ्चम्याश्चतुर्थ्यां पर्युषणापर्व प्रवर्त्तयन् आर्यश्रीकालिकाचार्य इति ।
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104