Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
प्रदीपिका ॥
३९ लिखितं भवेत्ताष्माकं प्रमाणमप्रमाणं वा ? तदा तं प्रति वाच्यं भो ! तदप्रमाणमेव, अस्मन्मान्यपूर्वाचार्यवचोविरुद्धत्वात्, सुधर्मादिवचोविरुद्धत्वद्वचनमिव । तस्मादस्माकं मान्या आचार्याः श्रीसुधर्मस्वाम्याधाचार्यवचोऽनुयायिनः श्रीजगच्चन्द्रसूरिश्रीदेवेन्द्रसूरि-श्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीआनन्दविमलसूरिप्रभृतयः तदुक्तवचोऽनुयायिनो येऽन्येऽपि तपागच्छीयास्तेषां वचः प्रमाणं, न पुनस्तपोवन्नाममात्रधारकाणां श्रीजगच्चन्द्रसूरिप्रभृतिपराङ्मुखानां तदुक्तवचनानाभोगवतां अनुपयोगिनां वा वचः प्रमाणम् । अन्यथा दिगम्बराणां पुरस्तात् श्वेताम्बरनामधारिणस्तवापि वचः प्रमाणीकर्तव्यं स्यात्, तच्चास्माकमनिष्टं । एवं साङ्ख्यादीनां पुरस्तात्तवापि जैननामधारिणो दिगम्बराणां वचः प्रमाणीकर्त्तव्यं स्यात्, तच्च तवाप्यनिष्टमित्यलं विस्तरेणेति । एवमुत्सूत्रकन्दकुद्दाले यत् सङ्घबाह्यत्वमौष्ट्रिकस्योक्तं तत्साक्षिकग्रन्थपृच्छायां तु सङ्घपट्टकवृत्तिरेव दर्शनीया । यतस्तत्र
'सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढपाशबन्धनवतः शक्तश्च न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः? ॥१॥
इति त्रयस्त्रिंशत्तमकाव्यवृत्तौ-'ऐदंयुगीनसङ्घप्रवृत्तिपरिहारेण सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं, न तु दूषणमिति स्वास्येनैव सङ्घबाह्यापत्यत्वमात्मनो ज्ञापितमिति । किञ्चैतत्काव्यमपि स्वकर्तारं सङ्घबाह्यं सङ्घद्वेषिणं च ज्ञापयति, अन्यथा व्याघ्रोपमया सङ्घस्य वर्णनं न स्यादिति भाविशङ्कोत्थाननिरोधोपायः ।
अथ मिथ्यादृष्टिग्रन्थकर्ता चतुर्थे भने वर्तमानोऽपि निह्नवेतरभेदाद् द्विविधः । तत्र द्वावपि मिथ्या-विपरीता यथार्थवस्त्वग्राहिणी, दृष्टिदर्शनं
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104