Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 40
________________ ३७ प्रदीपिका ॥ १२५० पुनः काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहात् ॥१॥ इति सोमसुन्दरसूरिषु राजमानेषु श्रीमुनिसुन्दरसूरिशिष्य पं. हर्षभूषणकृते श्राद्धविधिविनिश्चये एतस्मिन् काव्ये 'त्रिस्तुतिक' इत्यन्तेन समधिकपादत्रयेण पञ्चकस्याऽप्युत्पत्तिकालः सूचितः । 'कलौ जिनमते जाताः स्वकीयाग्रहा 'दिति किञ्चिन्न्यूनचतुर्थपादेन पञ्चानामपि निह्नवत्वं सूचितम् । तथा च खरतरस्य औष्ट्रिक इति नाम निह्नवत्वं च साक्षादुक्तं । खरतरमताकर्षको जिनदत्ताऽऽचार्यस्तु उत्पत्तिकालसूचनेन अर्थादागतस्तस्मिन् काले तन्मतिकल्पिताचार्यस्याऽभावात् जिनदत्ताचार्यस्य तु सद्भावादेव । एवमविधिविषौषध्यामप्येतदेव काव्यं । तथा श्रीमुनिसुन्दरसूरिरा[ जो ज्येऽपि सं. १४६६ वर्षे विज्ञप्तित्रिदशतरङ्गिण्यां निह्नवत्वं दर्शितवन्तः । तथाहि - आज्ञाभङ्गान्तरायोत्था-ऽनन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः, प्रायः स्वैरं प्रवर्तिताः ॥१॥ उपधानप्रतिक्रान्ति-जिना दिनिषेधतः । न्यूनिता दुःषमादोषात् प्रमत्तजनताप्रियाः ॥२॥ अत्र जिनार्चा-स्त्रीजिनार्चा, तस्या निषेधकोऽनन्तसंसारनिर्भय इत्यनेन निह्नवः कथितः । तथा तपोवत्स्वेव चारित्रं श्रीमुनिसुन्दरसूरिभिरप्युक्तं तत्रैव तथाहि या श्रीवीरसुधर्माद्यैः, प्रणीता स्वागमानुगा । आचीर्णा स्थविरैः कालानुरूपयतनाश्रिता ॥१॥ सामाचारी गणेऽस्मिंस्तु, शुद्धा सैवाऽस्त्यखण्डिता । परम्परागता सर्वगणान्तरगताधिका ॥२॥ युग्मम् ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104