Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्रइत्यादि कुत्सितं ब्रुवाणोऽप्यपास्तः, चाण्डालादेरपि महानुभावत्वपूज्यत्वाद्यापत्तेः । यतो बहवश्चाण्डालादयः स्वकुलाचारं निन्दन्तो दृश्यन्त इति । तस्मादुत्सूत्रकन्दकुद्दालग्रन्थकर्तुः स्वाङ्गीकृतं शुद्धं मार्ग प्रशंसयतोऽपरं चाशुद्धं मार्गमशुद्धतया ब्रुवाणस्य न किञ्चिद् दूषणं, प्रत्युत महागुण इति प्रतीहि । एवं सत्यपि यदि तवाऽनास्था, तर्हि हस्तकङ्कणावलोकने किमादर्शन प्रयोजनमिति लोकाऽऽभाणकं सत्यापयन् निदर्शय करग्राहेणाऽयं चारित्रीति, येन वयं प्रतीम इति । तस्माद्धर्मवता केनापि स्वपक्षस्थापनपरपक्षोत्थापनायाऽसद्दोषोद्भावनेन ग्रन्थकर्त्तारो न हीलनीयाः, बोधिनाशप्रसङ्गात् किन्तु प्रवचनविरुद्धभाषणेन हीलनीयास्तच्चोत्सूत्रकन्दकुद्दालादौ लेशतोऽपि न दृश्यते । अतोऽयं ग्रन्थकर्ता प्रमाणीकृत्य स्तुत्यो, येनाग्निना दग्धस्याग्निरेव सदौषधमिति न्यायात् । एतद्ग्रन्थकर्तुर्कीलनद्वारा हीलिता अर्हदादयः, सम्यक्त्वनाशहेतवोऽपि तत्स्तुतिद्वारैव स्तुताः सम्यक्त्वहेतवो भवन्तीति परित्यक्तसम्यक्त्वानां पुनः सम्यक्त्वारोपणविधिः । __अथ प्रसङ्गाद् भाविशङ्कोत्थानपराचिकीर्षया शङ्कानुत्थानविधिमाह-अथ यदि कश्चिद्वदति-भो ! अस्मिन् ग्रन्थे खरतरमताकर्षकजिनदत्ताचार्यस्यौष्ट्रिक इति नाम, तस्य निह्नवत्वं, च तपोवत्स्वेव चारित्रं चेत्याधुक्तं, तच्चाऽन्यत्र ग्रन्थान्तरे क्वापि न दृश्यते । अतः साक्षिकग्रन्थाऽभावेनाऽयमुत्सूत्रकन्दकुद्दालनामा ग्रन्थो नास्माकं विश्वासस्थानं, तदा तं प्रति वाच्यम्-भो ! बहवः साक्षिणो ग्रन्थास्तथाहि
हुं नन्देन्द्रियरुद्रकाल ११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाऽभ्रारुणकाल १२०४ औष्ट्रिकभवो विश्वाळकाले १२१३ ऽञ्चलः । षट्व्यर्केषु १२३६ च सार्द्धपौर्णिम इति व्योमेन्द्रियार्के
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104