Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 36
________________ प्रदीपिका ॥ जैनप्रवचनं मागं मार्गतया कथयति, तद्विपरीतं च निह्नवादि कुप्रवचनं नरकादिहेतुत्वादुन्मार्गमुन्मार्गतया कथयति । न चैतावता रागद्वेषोदयः सम्भावनीयः । नहि लोकेऽपि कोऽपि मार्गोन्मार्गज्ञो मार्गप्रस्थितः परान् प्रति स्वयं गम्यमानं मार्ग मार्गतया, चौरसिंहादिभयाऽऽकुलमुन्मार्गमुन्मार्गतया कथयन् रागद्वेषीति व्यपदेशं लभते, न वा कोऽपि स्वकीयं सुवर्णं सुवर्णतया कथयन्तं परकीयं च पित्तलं पित्तलतया कथयन्तं रागद्वेषोदयिनं वदति, प्रत्युत यथार्थभाषित्वाद् विश्वासस्थानं भवति । तस्मात्सम्यग्दृष्टः मार्गोन्मार्ग यथावद्विभणिषया ग्रन्थचिकीर्षन् अनन्तरवक्ष्यमाण-चतुर्भङ्गग्याः प्रथम एव भङ्गे वर्तमानो बोध्यः । चतुर्भङ्गी-यथा मार्गोन्मार्गयोर्यथार्थभाषी १, मार्गस्य यथार्थभाषी उन्मार्गस्याऽयथार्थभाषी २, मार्गस्याऽयथार्थभाषी उन्मार्गस्य यथार्थभाषी ३, मार्गोन्मार्गयोरयथार्थभाषी ४ । चेति । तत्र प्रथमभने सम्यग्दृष्टिरेव । द्वितीयतृतीयभङ्गावसम्भविनौ, तयोः कस्याप्यविद्यमानत्वात् । चतुर्थे निह्नवादिमार्गासक्तो जैनप्रवचनपराङ्मुखोऽवसातव्यः । ननु यदुक्तं द्वितीयतृतीयभङ्गावसम्भविनौ, तदसत्यम् । द्वितीये तावन्मार्गोन्मार्गों सत्यावेवेति वदन् मिश्रगुणस्थानवर्ती, तृतीये मार्गोन्मार्गावुभावप्यसत्याविति वदन् शून्यवादी चेति चेत् । सत्यं, व्यवहारतो विद्यमानावपि निश्चयतः चतुर्थभङ्ग एवान्तर्भावनीयौ, विषामृतयोस्तुल्यत्वेन भाषमाणाविवोभयत्राऽप्युपमया वितथभाषिणावेव । उपमयेति कथमिति चेत्, श्रृणु-तत्र द्वितीये तावत् जैनधर्मः सत्यः, किंवद् इति पृष्टे बौद्धादिधर्मवत्, बौद्धादिधर्मः सत्यः, किंवद् इति पृष्टे जैनधर्मवच्चेति ब्रूते । एवं तृतीयेऽपि परमसत्यतयोपमयतीति तात्पर्यम् । अत एव निह्नवः प्रवचनैकदेशमपलपन्नपि सर्वथाऽपलापीत्युच्यते इत्यत्र बहु वक्तव्यं ग्रन्थगौरवभयानोच्यते इति । न च निह्नवश्चतुर्थभङ्गेना

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104