Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्र'मुद्धाणाययणगया चुक्का मग्गाओ जायसंदेहा । बहुजणपिट्ठिविलग्गा दुहिणो हुआ समाहूआ' ॥१॥ इति गणधरसार्द्धशतकमध्ये । एतस्या औष्ट्रिककृता वृत्तिस्त्वेवं येन समाहूता:आकारयाञ्चक्रिरे, के ? इत्याह-मुग्धाः-अज्ञा ऋजवः, कीदृशाः सन्तः ? अनायतनगता:-अनायतनप्राप्ताः, अनायतनस्वरूपं चाऽग्रत एव वक्ष्यामः, किमित्यनायतनगताः, यतो 'चुक्क'त्ति भ्रष्टाः, कस्मात् ? मार्गात्-सत्पथात्, तस्मादपि कस्माद् भ्रंशः ? तत्राह यतो जातसन्देहाः, जात:-समुत्पन्नः, किमयं नित्यवासवसतिनिरासस्वगच्छपाशबन्धनप्रकाशस्वरूपश्चैत्यवासिनां मार्ग उतश्चित् पञ्चामृतस्नात्रयतिप्रतिष्ठासर्वबिम्बस्ना[ नस्तो निषेधब्रह्मशान्त्यादिवैयावृत्त्यकरपूजाप्रणामप्रतिषेधगृहीतपूजोपकरणश्राद्धसाधुवन्दनदेवाग्रतःस्थापनाचार्यस्थापनेर्यापथप्रतिक्रमणस्वरूपः पौर्णिमासिकानामाहोश्चित् चन्दनकर्पूरक्षेपविरतिरूपः सार्द्धपौर्णिमासिकानां, किंवा सिचयाञ्चलवन्दनकदापनादिरूपः सैचयिकानां, अथवा मलमलिनगात्रदौर्गन्ध्यपात्रावश्रावणतन्दुलधावनादिग्राहिणामेकाकिविहारिणां गुरुकुलवासत्यागिनां तपस्विनां इत्यादिः संदेहः-संशयो येषां ते जातसंदेहाः, अत एव च बहुजनपृष्ठलग्ना:-बहु[ जनस्य* ]चैत्यवासि-राकापक्षीयसैचयिकादिप्रचुरलोकस्य पृष्ठे लग्नाः पश्चाद्भागे सक्ता मुग्धधार्मिकत्वान्मलक्लिनस्विन्नतत्पुताघ्रायिण इत्यर्थः । एवं चैकेकस्मिन्नाऽऽथाकर्मोपभोगगुरुकुलवासत्यागसूतकपिण्डग्रहणादिदूषणावेक्षणेनैकत्र मानससन्निवेशवैकल्याहुःखिनः संतप्तगात्रीभूताः सन्तः समाहूताः, यदुत-भो ! श्रद्धालवो जनाः ! यूयं किमित्येवमुद्विग्नचित्ता: परिभ्राम्यथ ? श्रृणुत मद्वचनमिति । वीरोऽपि हि मुग्धान् सञ्जातदिग्मोहान् जनान् अनायतनगतान् अस्थानप्राप्तान् मार्गाद्
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104