Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 32
________________ प्रदीपिका ॥ प्रत्युत्तरयितुमशक्यत्वात् । शक्यत्वे च सिद्धा आगमव्यवहारिव्यतिरिक्तस्याऽपि स्वपक्षस्थापना परपक्षोत्थापना च निर्दोषवती, तथा च सिद्धं तद्धेतुभूतं ज्ञानमपि निश्चयात्मकमेवेति । ननु जैनप्रवचनं सत्यं, नेतरदिति ज्ञानं तु श्रुतव्यवहारिणामागमव्यवहारिवचोऽनुयायिनां भवत्येव, तदनुसारेण जैनपक्षस्थापनतदितरोत्थापनाभ्यां प्रवर्त्तमानोऽपि रागद्वेषरहित एवेति चेत्, हे सुहृत् ! दातव्या ते वर्धापनिका, येनाऽऽयातोऽसि स्वयमेवाऽस्मदुक्तमार्गेण, वयमप्येवमेव वदामः । यदागमव्यवहारिणां वचांस्याचाराङ्गादीनि शास्त्राणि तदनुसारेण च स्वपक्षस्थापनं परपक्षोत्थापनं च कुर्वतां न रागद्वेषश्वपाकस्पर्शोऽपि । अत एव स्वपक्षस्थापनपरपक्षोत्थापनात्मकग्रन्थकर्ता रागद्वेषोदयीति सामान्यवचसाऽऽगमव्यवहारिवचोऽनुयायिनमुत्सूत्रकन्दकुद्दालादिग्रन्थकर्तारं हीलयन्तो जैनाभासाः कुमतयोऽर्हदादीनामाऽऽशातनया परित्यक्तसम्यक्त्वा इति वयं वदामः । इत्याशातनाजन्यसम्यक्त्वपरित्याग उक्तः। कषायोदयजन्यसम्यक्त्वपरित्यागस्तु प्रकृतेऽत्यन्तोपयोगाभावेन नेह प्रतन्यते इति सम्यक्त्वपरित्यागस्वरूपमुक्तम् । अथ यद्यपि सम्यक्त्वपरित्यागं कथयत्येव मयि निपुणानां पुनः सम्यक्त्वारोपणं जातमेव, तथापि मुग्धानां दुर्विदग्धानां च तदारोपणं दुःसाध्यमिति प्रकारान्तरेण तदारोपणमुच्यते, तथाहि - तत्र स एव तावदित्थं पृष्टव्यः- भो ! विदग्ध ! स्वपक्षस्थापनपरपक्षोत्थापनात्मकत्वेनोत्सूत्रकन्दकुद्दालादयो न प्रमाणं, तास्तां तावद् गणधररचिता द्वादशाङ्गी, त्वदीया अपि ग्रन्थाः कथं तव प्रमाणं भवेयुः ?, यतस्तेऽपि स्वपक्षस्थापनपरपक्षोत्थापनात्मका एव दृश्यन्ते, तथाहि-त्वत्तीर्थकृज्जिनदत्ताचार्यस्तावदुत्सूत्रपदोद्घाटनकुलादिकं कुर्वन् यत्तत्प्रलापेनाऽऽत्मव्यतिरिक्तं दूषयन्नेवाऽऽसीत्तथा

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104