Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 28
________________ २५ प्रदीपिका ॥ कत्तियकण्हे चरिमा गब्भाइदिणा जहक्कम एते। हत्थुत्तरजोएणं चउरो तह सातिणा चरमो ॥२॥ . इति श्रीहरिभद्रसूरिकृते यात्राविधिपञ्चाशके । एतच्चोत्सूत्रं जिनदत्तस्य गुरुगा प्रकाशितमिति औष्ट्रिककृतगणधरसार्द्धशतकवृत्त्याद्यनुसारेण ज्ञप्तिः ॥ उक्तं च गणधरसार्द्धशतके असहाएणावि विही पसाहिओ जो न सेससूरीणं । लोअणपहेवि वच्चइ वुच्चइ पुण जिणमयन्नूहि ॥१२२॥ व्या०-येनेति जेण तउ पासत्थाई इत्यतः सम्बध्यते । ततो येन भगवता असहायेनाऽपि-एकाकिनापि परकीयसहायकनिरपेक्षं, अपिः विस्मये । अतीवाश्चर्यमेतत् । विधिरागमोक्तः षष्ठकल्याणकरूपश्चेत्यादिविषयः पूर्वदर्शितश्च प्रकारः प्रकर्षेणेदमित्थमेव भवति योऽत्रार्थेऽसहिष्णुः स वावदीत्विति स्कन्धाऽऽस्फालनपूर्वकं साधितःसकललोकप्रत्यक्षं प्रकाशितः, यो न शेषसूरीणां-अपराचार्याणां अज्ञातसिद्धान्तरहस्यानामित्यर्थः, लोचनपथेऽपि दृष्टिमार्गेऽपि, आस्तां श्रुतिपथे, व्रजति-याति, उच्यते पुनर्जिनमतज्ञैर्भगवत्प्रवचनवेदिभिरितिगाथार्थः ॥ गणधरसार्द्धशतकवृत्तिपत्रे १५९। अत एतदुत्सूत्रमाश्रित्य स जिनदत्तस्य पूर्वजो ज्ञेयः, तस्य च पूर्वजो नास्ति, तेन गुरूपदेशं विनैव प्रकाशितत्वात् । एवं यद्यदुत्सूत्रमाश्रित्य यो यः प्रथमतया प्रकाशकः, स स तत्तदुत्सूत्रमाश्रित्य पूर्वजरहितस्तदनुजानां च स एव पूर्वज इति स्वयमेव बोध्यम् ॥१॥ ____ लौककलोकोत्तरमिथ्यात्वरूपं च प्रायः प्रवचनविदां प्रतीतमेवेति नेह प्रतन्यते ॥२॥ सांगरिकादि द्विदलमिति प्ररूपणा तु'जंमि उ पीलिज्जंते नेहो न हु होइ बिंति तं विदलं ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104