Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 24
________________ प्रदीपिका ॥ श्राद्धानां जघन्यादिषु त्रिष्वपि भङ्गेषु नोक्तं । यच्च श्राद्धानामुभयसन्ध्यं चैत्यपुरस्ताच्चैत्यवन्दनद्वयमुक्तं तच्च साधूनां नोक्तम् । तस्मात् श्राद्धैः चैत्यवन्दनाधिकारे साध्वाचारो नानुसरणीयः । साध्वनुकृतिः तत्रैव भवति, यत्र नामग्राहेण भिन्नविधि!क्तो भवति । तथा चोभयसन्ध्यं देववन्दनं त्यजन् जघन्यश्रावकाचारोऽप्याराधितो न स्यात्, कुतस्त्यमुत्कृष्टाचाराराधनं ? । यतः प्रवचनाविरोधेन जघन्याचारमाराधयन्नेवोत्कृष्टाचाराराधको भवति, यथोत्कृष्टः श्राद्धो जघन्यश्रावकस्वख्यं जिनोक्ततत्त्वार्थश्रद्धानरूपमनुल्लङ्घयन्नेव, नाऽन्यथा । औष्ट्रिकेण तु पौषधिकानां जघन्याऽऽचारोऽपि त्याजित इति महत्साहसं । किञ्च-यः साधूनां सप्तसङ्ख्यानियमः कथितः, सोऽपि प्रत्यहं सामान्यप्रयोजनमाश्रित्याऽवसातव्यः, प्रयोजनविशेषे तु न्यूनाधिकत्वेऽपि न दोषः । चतुर्विधाऽऽहारोपवासकारिषु यावच्चैत्यालयचैत्यवन्दनकारिषु च तथैव दर्शनात् । यावच्चैत्यालयचैत्यवन्दनानि भूयांस्यप्येकमेव गण्यन्ते, गण्यतां तर्हि त्रिसन्ध्यं त्रीण्यपि चैत्यवन्दनान्येकमेवेत्यादिप्रश्नोत्तरविधानं स्वयमेव कार्यमिति । ततश्च गणभृदाद्याऽऽचार्यपरम्परा[ रया यद्यथा* ]गतं तत्तथैवाचरतां श्रेय इति विचिन्त्य स्वमतिकल्पनया नात्मा क्लेशनीय इति ८॥ आचार्य विना प्रतिष्ठानिषेधः प्रतिष्ठाकल्पादिनैव विरुद्धः । तत्रोपाध्यायादीनामप्यनुज्ञातत्वात् । श्रीशत्रुञ्जयमाहात्म्ये सामान्यसाधुभिरपि कृतेति ९॥ ___ गृहिणामाचामाम्ले द्रव्यद्वयातिरिक्तद्रव्यनिषेधस्तु साध्वपेक्षया भिन्नप्रकारेण क्वाप्यनुपलम्भात् सर्वागमविरुद्धः १०॥ पौषधिकानां भोजननिषेधस्तु श्रीआवश्यकचूादिना विरुद्धः । यतस्तत्र पोषधिकानां भोजनविधिरुक्ताऽस्ति ११॥अत्र यः कश्चिदेवं

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104