Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 22
________________ प्रदीपिका ॥ तच्चानुक्तमिति स्वयं विचार्यम् । यदि च कश्चिदेवं वदति-संलग्नोच्चारे प्रत्यहं षडावश्यकानि सत्यापयितुं न शक्यन्ते, प्रत्याख्यानस्य प्रथमदिन एव कृतत्वात् । तदा तं प्रति वाच्यं-भो देवानुप्रिय ! तर्हि चतुर्विधाहारोपवासोपि प्रातः कर्त्तव्यो न स्यात्, प्रत्याख्यानस्य प्रातरेव कृतत्वेन संध्यायां षडावश्यकसत्यापनाया असम्भवात् । तस्मात् किं कर्त्तव्यमिति चेत्, सुहृद्भावेन शृणु-कृत्यस्य कृतत्वेन कृते प्रत्याख्याने षडावश्यकसत्यापना जातैवेति । किञ्च स्वस्य शक्त्यशक्तिसन्देहात् संलग्नोच्चाराभावे महाव्रतोच्चारेऽप्येवमेवाचरणीयं । तथा च जिनदत्तस्य प्रत्यहं प्रव्रज्यामहोत्सवे वो* ] सिद्धं महच्चातुर्यमिति ५ ॥ गृहिणां 'पाणस्से'त्याकारोच्चारनिषेधः प्रत्याख्यानरूपावश्यकसूत्रेण सह विरुद्धः । गृहिणां प्रत्याख्यानविधेभिन्नस्य क्वाप्यदर्शनात् प्रत्युत पारिष्ठापनिकाकारे निषिद्धेऽपि गृहिणां पाठोच्चारस्तु स्वीकृतो दृष्टो, यथा साधूनां प्रातः प्रतिक्रमणे गोचर्यालापकपाठः । किंच-केवलकसेल्लकपानीयग्राहिणो जिनदत्तस्यैव तन्निषेधो युज्यते इति बोध्यम् ६ ॥ श्रावकप्रतिमातपोनिषेधस्तु प्रवचनसारोद्धारादिभिः सह विरुद्धः । यतस्तत्र श्राद्धप्रतिमातपोविधिरुक्तः, परं श्राद्धप्रतिमातपोव्युच्छिन्नमिति क्वापि न दृष्टम् । किञ्च-यदि पञ्चमगुणस्थानस्थितानां श्राद्धानां तपोविधिरुच्छिन्नस्तर्हि संहननादिसामग्यास्तुल्यत्वे सत्यपि षष्ठसप्तमगुणस्थानवर्तिनमात्मानं मन्यमानस्य तव सर्वविरत्याचारः कथं न व्युच्छिन्नः ? यतोऽग्रेतनगुणस्थानहेतुसंहननादिव्युच्छेदे सत्येव केवलाऽर्वाग्गुणस्थानवतिविधिरुच्छिद्यते, यथा केवलज्ञानस्य सामग्रीव्युच्छेदे सत्येव क्षायिकसम्यक्त्वसामग्रीव्युच्छेद इति ॥७॥ पोषधिकानां मध्याह्न विना देववन्दननिषेधस्तु श्रावकाचारप्रकाशकसर्वग्रन्थैः सह विरुद्धः । यतो जघन्यादिश्राद्धानां नियतकर्त्तव्यतायां त्रिसन्ध्यं जिनार्चा चैत्यवन्दनायुक्तं, यदुक्तं महानिशीथे

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104