Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
१७
प्रदीपिका ॥ तीर्थकरभोगादिमानने लोकोत्तरमिथ्यात्वं न भवति २, इहलोकार्थ[थे* ] चामुण्डिकाक्षेत्रपालाद्याराधनं पञ्चनद्यादिसाधनं च लौकिकमिथ्यात्वं न भवति ३, सांगरिकबुब्बूलादि द्विदलं भवति ४, पर्युषितद्विदलपूपिकादिग्रहणं दोषाय न भवति ५, ससाध्वीसाधुविहारो युक्तो न भवति ६, चेति वितथ-वस्तुप्ररूपणारूपमुत्सूत्रम् ४ । ___अत्र यद्यप्याद्यास्त्रयोऽपि प्रकाराश्चतुर्थेऽन्तर्भवन्ति, सर्वेषामपि वितथवस्तुप्ररूपणारूपत्वात्, तथापि क्रियाधिक्ये तावन्न कश्चिद्दोषः प्रत्युताऽप्रमत्ततेति कस्यचित् मुग्धस्य व्यामोहो भवति, तद्व्युदासाथ भेदकथनं । तथा च न्यूनाधिकक्रिययोरुत्सूत्रमाश्रित्य तुल्यत्वमिति भावः । इत्युत्सूत्रोद्घाटनम् । अथाऽऽगमसाक्षिकं तत्तिरस्करणं । यथास्त्रीणां जिनपूजानिषेधो ज्ञाताधर्मकथाङ्गोत्तराध्ययनादिशास्त्रैः सह विरुद्धः । यतस्तत्र द्रौपदीप्रभावत्यादिस्त्रीकृता जिनपूजा सकलजनप्रतीतैव । किञ्च भगवत्पूजावैरिणा जिनदत्ताचार्येण यथार्हत्पूजा निषिद्धा स्त्रीणामपावित्र्यहेतुना तथा तत्संस्कृतान्नभक्षणं स्वात्मनः क्रियमाणमोदकादिदानं च कथं न निषिद्धमित्यादिप्रतिबन्दीरूपा दोषाः स्वयमेव बोध्या: । एवमग्रेऽपि प्रायः किञ्चेत्यादिवाक्येन प्रतिबन्दी बोध्या ।
जिनगृहे नर्तकीनृत्यनिषेधः श्रीराजप्रश्नीयोपाङ्गादिविरुद्धः । यतस्तत्र सूर्याभदेवः स्वयं कुमारकुमारीर्विकुळ नाट्यं कृतवानिति । किञ्च-जिनदत्तेन वीतरागभवने स्त्रीनृत्यं यथा निषिद्धं, तथा सरागिणः स्वस्याऽऽलये स्त्रीप्रवेशोऽपि कथं न निषिद्धः ? ।
चतुष्पर्वी विना पोषधनिषेधः तत्त्वार्थभाष्यवृत्तिविपाकश्रुताङ्गादिना सह विरुद्धः । यतस्तत्त्वार्थभाष्यवृत्तौ 'प्रतिपदादिष्वनियमेन कार्य' इति लिखितमस्ति, विपाकश्रुते च सुबाह्वादयः पोषधत्रयं कृतवन्तः । किञ्च चतुष्पा नियमेन क्रियमाणस्य
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104