Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 18
________________ प्रदीपिका ॥ - इति । कथं वा श्रीआवश्यकनिर्युक्तिस्थविरावलीलिखितनागार्जुनगोविन्दाचार्यादीन् अन्यानपि श्रीहरिभद्रसूरिप्रभृतींश्चाऽऽदाय श्रीकल्पसूत्रस्थविरावलीविरोधिनीं पट्टावलीं रचयतीति स्वयमेवाऽऽलोच्यं । अथ कश्चित्सुहृद्भावेन पृच्छतिअहोश्चिद्भवदीयग्रन्थानुसारेण श्रीजिनेश्वरसूरेः खरतरबिरुदं न जातमित्यर्थादागतेऽपि यथा औष्ट्रिकग्रन्थेषु तस्य खरतरबिरुदं जातमिति स्पष्टं लिखितं, तथा युष्माकं ग्रन्थेषु तस्य तद्विरुदं न जातमिति स्पष्टं क्वापि कुतो न लिखितमिति ? । तदा तं प्रति वाच्यं भो ! सुहृत् ! तादृशलिखनं तु विप्रतिपत्या विवादे सति सम्भवति, तच्चाद्ययावद्विप्रतिपत्तेरेवाभावात् कुतस्तल्लिखनं ?, विवादे जाते तु तल्लिखनं भवत्येव । यथेदानीं मया लिखितं, औष्ट्रिकस्य तु तादृक् लिखिनं यादृच्छिकनाम्नः सहेतुकताकरणार्थं भवत्येव, परं लिखनमात्रेण तुष्टिर्न कार्या, किन्तु विचारक्षोदक्षमेऽर्थादागतेऽपि तुष्टिः कार्या । यथा दुग्धाभिलाषिणां लघुस्तनाऽपि पयस्विनीं दुग्धदातृत्वेन तुष्टिहेतुर्न तथा बृहद्वृषणोऽपि वृषभ इति । अनेके दृष्टान्तास्वयमभ्यूह्याः । तस्मात् खरतरपट्टावल्याद्यनुसारेण श्रीजिनेश्वरसूरे: खरतरनाम न श्रद्धेयं, किन्तु जिनदत्ताचार्येण पृच्छतां पुरस्तादात्मनो यादृच्छकं नाम प्रकटीकृतमिति तात्पर्य्यम् ॥ इति श्रीमत्तपागणनभोऽङ्गणनभोमणिश्रीविजयदानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामौष्ट्रिक - नामव्यवस्थापनालक्षण: प्रथमोऽधिकारः ॥१॥ १५ अथ द्वितीयाधिकारे औष्ट्रिकमतोत्सूत्रमुद्घाट्याऽऽगमसाक्षिकं तत्तिरस्क्रियते । तत्रोत्सूत्रं चतुर्धा सम्भवति, तथाहि - न्यूनक्रियाप्ररूपणरूपम् १ अधिकक्रियाप्ररूपणरूपम् २ अयथास्थानक्रियाप्ररूपणरूपम् ३ वस्तुवितथप्ररूपणरूपम् ४ चेति । तत्र कस्यचित्

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104