Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्रश्रीपद्मप्रभसूरिरिति लिखितमस्ति, ततो ज्ञातं [तथार्बुदाचलश्रीनेमिनाथप्रासादपश्चिमदिशि श्रीशांतिनाथदेवगृहिकायां प्रशस्तौ सं. १२९३ वर्षे विशाख शु. १५ शनौ । इत्यादि यावत् श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं च नवांगवृत्तिकारक श्रीअभयदेवसूरिसंतानीयैः श्रीधर्मघोषसूरिभिरित्यादि । तत्र विचार्य । खरतरपट्टावल्यां धर्मघोषसूरिस्तत्संताने लिखितो नास्ति तत्कि कारणमित्यादि । किंच तत्र श्रावकास्तपापक्षीया लिखिताः संति । तपोवद्भिश्च खरतरादिभिः सह वंदनादिव्यवहारोपि निषिद्धोस्ति । अतस्तत्प्रतिष्ठाया-मौष्ट्रिकस्य प्रवेशो कथं संभवत्यादि ज्ञेयं । पंक्ति ३* ] मिति । अथ कोऽप्यतिवाचाटो वदति-भो ! इयं पट्टावली खरतरभेदविशेस्य भविष्यति, तदा तं प्रति वाच्यं-भो ! वाक्पटो ! समस्तखरतरपट्टावलीषु खरतरमताकर्षकजिनदत्ताचार्यस्य गुरुः श्रीजिनवल्लभसूरिलिखितोऽस्ति । नहि कापि चामुण्डिकपट्टावली जिनवल्लभनामरहिता वर्तते । इयं च पट्टावली जिनवल्लभनामरहिता, अतो न खारतरीति जानीहि। अथ कोऽपि शङ्कितः शङ्कते-अहो ! एतावदशुद्धं कथं पट्टावल्यादिषु लिखितुं शक्यते ?, तदा तं प्रति वाच्यं-भो ! उत्सूत्रभाषकाणां मृषाभाषणे शझैव न भवति, कथमन्यथाऽऽचाराङ्गदीपिकाकारः श्रीउद्योतनसूरिमपि खरतरनाम्ना कलङ्कितवान् । उक्तं चाचाराङ्गदीपिकाप्रशस्तौ
श्रीवीरशासने क्लेश-नाशने जयिनि क्षितौ । सुधर्मस्वाम्यपत्यानि, गणाः सन्ति सहस्रशः ॥१॥ गच्छः खरतरस्तेषु, समस्ति स्वस्तिभाजनं । . यत्राभूवन् गुणजुषो, गुरवो गतकल्मषाः ॥२॥ श्रीमानुद्योतनः सूरि-र्वर्द्धमानो जिनेश्वरः । जिनचन्द्रोऽभयदेवो, नवाङ्गवृत्तिकारकः ॥३॥
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104