Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 25
________________ औष्ट्रिकमतोत्सूत्रचिन्तयति - आहोश्चित् आचाम्लकारिणां द्रव्यद्वयातिरिक्तद्रव्यनिषेधे पोषधिकानां भोजननिषेधे च क्रियाया न्यूनत्वं कथं ? प्रत्युतोगत्वमेव प्रतीयते इति । स चाऽज्ञानिशेखरोऽवसातव्यः । यतस्तत्र स्पष्टन्यूनत्वे उग्रत्वं जानाति, तथाहि-द्रव्यद्वयेनैवाचाम्लं कर्त्तव्यं नाधिकेनेत्युक्ते त्रिचतुरादि यावत्कल्प्यद्रव्यभेदभिन्नान्यनेकविधान्याचाम्लानि निषिद्धानि । तथा पोषधिकानां भोजननिषेधे च एकाशनादिभेदभिन्ना अनेके पोषधा निषिद्धास्तथा चाऽनेकेषामाऽऽचाम्लानामनेकेषां पोषधानां च मध्यादेकैकभेदमाऽऽदाय शेषभेदांस्तिरस्कुर्वाणः कथं न न्यूनकियाप्ररूपकः ? अन्यथा त्रिविधचतुर्विधाहारोपवासयोमध्यादेकमेव चतुर्विधाऽऽहारोपवासलक्षणं भेदं स्वीकुर्वाणोऽप्युग्रक्रियाप्ररुपकः स्यात् । तथा चामिनवस्तीर्थकरः स्यादिति न्यूनक्रियाप्ररुपणरूपोत्सूत्रस्य निराकरणमुक्तम् ।। अथाऽधिकक्रियाप्ररूपणरूपोत्सूत्रस्य निराकरणमुच्यते-तत्र रात्रिपोषधिकानां रात्रिचरमयामे सामायिककरणं सामायिकसूत्रेणापि सह विरुद्धम् । यतस्तत्र 'जाव पोसहं पज्जुवासामी' त्युच्चारण पोषधावधिकं सामायिकमुच्चरितं, तच्च पोषधासमाप्तावेव पुनस्तदुच्चरणं तेनैव सूत्रेण विरुद्धं, अन्यथाऽवधिकरणवैयर्थ्यप्रसङ्गेन 'जाव पच्छिमरत्तिं पज्जुवासामी 'ति पाठोच्चारप्रसङ्गः स्यात् । किञ्चपोषधावधिकं कृतमपि सामायिकं पोषधसमाप्तेरागपि समाप्तमिति बुद्ध्या नवीनं सामायिकं कारयता जिनदत्ताऽऽचार्येण यावज्जीवाऽवधिकचारित्रमपि किञ्चित्कालाऽवधिना अागेव वारं वारं कथं नोपाददे ? इति ।१। ___सामायिकं पोषधं च कुर्वाणानां श्राद्धानां नमस्कारत्रयपूर्वकं त्रिर्दण्डकोच्चारः श्रीआवश्यकचूर्यादिना विरुद्धः । तत्रैवंविधोच्चारादर्शनात् । किञ्च-द्वादशव्रतमहाव्रतोच्चारदृष्टान्तेन त्रिरुच्चारणे

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104