________________
औष्ट्रिकमतोत्सूत्रनंष्ट्वा गतस्त [त्र] त औष्ट्रिक इति सार्थ लोकदत्तं नाम । उक्तं चोत्सूत्रकन्दकुद्दाले पञ्चमविश्रामे - जिनदत्तक्रियाकोशच्छेदोऽयं यत्कृतस्ततः । सङ्घोक्तिभीतितस्तेऽभू-दारुह्योष्ट्रं पलायन ॥१॥ मिति । .
तथा स्वमतप्रवृद्धये जिनदत्तेन चामुण्डिकाऽऽराधिता, ततश्चामुण्डिक इत्यपि सार्थकं लोकदत्तं नाम । उक्तं च उत्सूत्र० पञ्चमविश्रामे'सूर्याभनाट्यवत् ते किं, नर्त्तक्यो न जिनाङ्गणे ।
चैत्यानाऽऽयतनं यत्तद्युक्तं चामुण्डिकस्य च' ॥२॥ इति
तथा तृतीयं 'खरतर' इति नाम यादृच्छिकम् । पृच्छतां लोकानां पुरस्तात् जिनदत्तेन स्वयमेवाऽऽविष्कृतम् । यथा ऽञ्चलिकेन विधिपक्ष इति, त्रिस्तुतिकेन आगमिक इति च नाम लोकदत्तनाम्ना लज्जया स्वयमेव निर्हेतुकम् अर्थशून्यं च प्रकटीकृतम्, तथैतदपि, न पुनरिदमौष्ट्रिकचामुण्डिकनामद्वयवत् अतिशयेन खरः खरतर इति तन्मताभिप्रायेण लोकदत्तं सार्थकं [वा] च । क्वाप्युत्सूत्रकन्दकुद्दालादावेतन्नाम्नः सहेतुकसार्थकताया अदर्शनात् । ___ ननु यादृच्छिकनाम्नः कोऽर्थ ? इति चेत् । श्रृणु, निर्हेतुकं स्वमतिकल्पितं सङ्केतरूपं नाम यादृच्छिकमुच्यते । यथा अदेवदत्तस्यापि देवदत्त इति तृतीयं यादृच्छिकनाम । __अथ कश्चित्तन्मतमवलम्ब्य वदति-भो विचक्षण ! औष्ट्रिकपट्टावल्यां औष्ट्रिककृतषष्टिशतकवृत्त्यादौ च खरतरनाम्नः सहेतुकसार्थकता कथिताऽस्ति, तदा तं प्रति वाच्यं-भो देवानुप्रिय ! नहि कोऽपि विपश्चित् सम्यग् धिया चामुण्डिकशास्त्रमवलोक्य सत्यतया श्रद्दधाति, यत्र औष्ट्रिककृताऽऽधुनिकग्रन्थेषु क्वचिच्चतुरशीतिमठपतीन् जित्वा