________________
ॐ नमो जिनाय आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरीश्वरेभ्यो नमः महोपाध्यायश्रीधर्मसागरगणिप्रवरविरचिता औष्ट्रिकमतोत्सूत्रप्रदीपिका ॥
... * * * [एर्द० । श्रीविजयदानसूरिभ्योनमः ।] स्वस्तिश्रीमन्तमानन्द-ज्ञानामृतपयोनिधिं । नत्वा सम्प्रति तीर्थेशं, श्रीमतीरजिनेश्वरम् ॥१॥ दुर्मनस्कमृगत्रास-मृगारिं मुनिपुङ्गवं । श्रीमद्विजयदानाडं नत्वा सूरीश्वरं पुनः ॥२॥ कदाग्रहविमुक्तानां, मत्सराग्रस्तचेतसाम् । अल्पश्रुतवतां किञ्चिदुपकारपरायणाम् ॥३॥ चामुण्डिकमतोत्सूत्र-दीपिका बोधहेतवे । यथागुरुवचःप्रीति, प्रकुर्वे मृदुभाषया ॥४॥
. चतुर्भिः कलापकम् ॥ अत्र औष्ट्रिकमतोत्सूत्रप्रदीपिकायां चत्वारोऽधिकाराः । तत्र प्रथमाधिकारे औष्ट्रिकमतनामव्यवस्थापना । द्वितीयाधिकारे औष्ट्रिकमतोत्सूत्रमुद्धाट्याऽऽगमसाक्षिकं तत्तिरस्करणम् । तृतीयाधिकारे दुर्जनवचनानि श्रुत्वाऽहंदादिहीलनया परित्यक्तसम्यक्त्वाऽऽरोपणोपायः । चतुर्थाऽधिकारे औष्ट्रिकस्य त्रीणि नामानि। तथाहि-औष्ट्रिकश्चामुण्डिकः खरतरश्चेति । तत्र खरतरमताऽऽकर्षको जिनदत्ताचार्यः सङ्घोक्तिभीत्या उष्ट्रमाह्य पत्तननगराज्जावालपुरे