________________
प्रदीपिका ॥ दुर्लभराजसमक्षं श्रीजिनेश्वरसूरिभिः सं.१०२४ वर्षे, क्वचित् १०८० वर्षे खरतरबिरुदमवाप्तमिति लिखितमस्ति । तच्चासत्यं, यतस्तदानीं दुर्लभराजाऽपि दुर्लभ एवाऽस्ति [ सीत् ] । स च सं. १०६६ पत्तने राज्यं प्राप्य सं. १०७७ वर्षे परलोकं प्राप्त इति कुमारपालप्रबन्धादौ । किञ्च-तत्पूर्वजोऽपि गणधरसार्द्धशतकवृत्तिकर्ता यत्तत्प्रलपन्नपि खरतरबिस्दं क्वापि न लिखितवानित्यपि विचार्यम् । किञ्च-सर्वसम्मतप्रभावकचरित्रादौ राज्ञः उपरोधेन मठपतीनामाज्ञापूर्वकं श्रीजिनेश्वरसूरिबुद्धिसागराचार्यों पत्तने स्थिति कृतवन्तावित्येतावन्मानं लिखितमस्ति, परं मठपतिभिः सह वादस्तदनु च खरतरबिस्दमित्यादिवा गन्धोऽपि नास्ति, तथाहि
उपरोधेन नो यूय-ममीषां वसनं पुरे । अनुमन्यध्वमेवं च, श्रुत्वा तत्र तदादधु' ॥१॥
रिति श्रीप्रभावकचरित्रे । तस्मादौष्ट्रिकग्रन्थविश्वासो न विधेयः । किञ्च-औष्ट्रिकग्रन्थेषु निह्नवकृतत्वेनाऽपि सम्यग्दृशां विश्वासो न युक्तः । तद्विश्वासे च दुर्लभबोधिता स्यात्, उक्तं च महानिशीथे- 'जे भिक्खू वा भिक्खूणी वा सावओ वा साविआ वा परपासंडीणं पसंसं करेज्जा, जे आवि निह्नगाणं पसंसं करेज्जा, जे आवि निह्नगाणं अणुकूलं भासेज्जा, जे आवि निह्नगाणं आययणं पविसिज्जा, गंथसत्थपयक्खरं वा परवेज्जा, जे आवि निह्नगाणं संतिए कायकिलेसाइए तवेइ वा संजमेइ वा नाणेइ वा विण्णाणेइ वा सुए वा पंडिच्चेइ वा अविबुहमुद्धपरिसामज्झगए सिलाहेज्जा, से वि अ णं परमाहम्मिएसु उववज्जेज्जा, जहा सुमती' इति । निह्नवत्वं च चामुण्डिकस्योत्सूत्रकन्दकुद्दालप्रथमविश्रामे स्फुटमेव, तथाहि