________________
१०
औष्ट्रिकमतोत्सूत्र
'अनवस्थितकोत्सूत्रं, यथाच्छन्दत्वमेषु न । तदवस्थितकोत्सूत्रं, निह्नवत्वमुपस्थितम् ॥१॥ एते स्वकर्मणा बाह्याः, पञ्चोत्सूत्रप्ररूपकाः । अभूवन् दुःषमाकाल- भ्रमोद्भ्रामितचेतसः ' ॥२॥ इति । तथा सप्तमविश्रामेऽपि
'राकोष्ट्रिकौ बहिः सङ्घात्, सार्द्धराकाञ्चलौ बहिः । राकायाश्चांचलाच्चाऽसि, पूज्ये पूजा न ते ततः ' ॥१॥
एतत्साक्षिकग्रन्थास्तु अस्यामेव औष्ट्रिकमतोत्सूत्रप्रदीपिकायां तृतीयाऽधिकारे दर्शयिष्यन्ते इति । किञ्च यदि जिनेश्वरसूरेः खरतरबिरुदं जातमभविष्यत्, तर्हि उत्सूत्रकन्दकुद्दालकर्त्ता उत्सूत्रकन्दकुद्दाले प्रथमपञ्चमविश्रामयोर्महता प्रबन्धेन खरतरस्य निह्नवत्वं व्यवस्थाप्य तत्रैव ग्रन्थे सप्तमविश्रामे स्वोपज्ञवृत्तौ श्रीजिनेश्वरसूरिशिष्यश्रीअभयदेवसूरिर्नवाङ्गीवृत्तिकर्त्ता जिनशासनप्रभावक इति कथमकथयिष्यत्, निह्नवस्य प्रवचनोपघातित्वेन प्रभावकत्वाऽसम्भवात् । किन्तु खरतरगच्छाज्जिनदत्ताचार्य औष्ट्रिकमताऽऽकर्षको जात इत्यकथयिष्यत्, तच्च न कथितं, किन्तु खरतरमताऽऽकर्षको जिनदत्ताचार्य इति कथितम् । तथा च जिनेश्वरसूरेः खरतरबिरुदं दूरत एवाऽपास्तम् । नहि कोऽपि लुम्पाकमती महापातकीति कथयित्वा तन्मतेऽमुकनामा ऋषिर्जिनशासनप्रभावक इति कथयतीति । एतेन नवाङ्गीवृत्तिकर्त्ता श्रीअभयदेवसूरिः खरतर इत्यसत्यप्रवादोऽपि निरस्तः । यतो नवाङ्गीवृत्तिकर्त्ता विक्रम सं. १९२० वर्षे स्थानाङ्गवृत्ति कृतवान्, उक्तं च स्थानाङ्गवृत्तिप्रान्ते
'श्रीविक्रमादित्यनरेन्द्रकाला-च्छतेन विंशत्यधिकेन युक्ते । समासहस्त्रेऽतिगते विदृब्धा, स्थानाङ्गटीकाऽल्पधियोऽपि गम्ये 'ति ॥