Book Title: Anekantvad Pravesh Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh Publisher: Hemchandracharya Sabha View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः भावः, स एव धर्मिणोऽपि ? एवं सति असौधर्माधर्म एव स्यात्, तत्स्वभावत्वात् , धर्मस्वरूपवद् ; धर्मो वा धर्मिस्वभावाव्यतिरिच्यमानमूर्तिर्धर्मिमात्रमेव स्यादिति ? ततश्चैवं धर्मर्मिर्जी स्वभावभेदानासादनेनाप्रतिलब्धभेदौ कथं भेदनिमित्तं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वोक्तदोषानतिवृत्तेः ॥ भेदो वा स्यादभेदो वा द्वयं वा धर्मधर्मिणोः । भेदेनैकमनेकं स्या-दभेदेऽपि न युज्यते ॥ १ ॥ द्वयपक्षोऽपि चायुक्तो विकल्पानुपपत्तितः । तेनानेकान्तवादोय-मज्ञैः समुपकाल्पतः ॥ २॥ किं च;-संविनिष्ठांश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात्; तथाहिनाक्षजे विज्ञाने सदसत्त्वे प्रतिभासते, असत्त्वस्यापित्वात् , कपित्वे वाऽसत्त्वविरोधात्, तथानुभवाभावाच ॥ न च कार्यद्वारेणापि सदसद्पं वस्तु प्रतिपत्तुं शक्यते, यत:-नोभयरूपं कार्यमुपलभ्यते, नच तत्कार्यकरणे प्रवर्तमान केनचिदाकारण करोति, केनचिन्न करोति, एकस्य करणाकरणविरो धात्; सर्वात्मना च करणे तद्भीवरूयमेव स्यात्, तथाहि-नाभावः कस्यचिदपि कारणं भवितुमर्हति,अभावत्वाविरोधात्,तत्कारणत्वे १. स्वरूपाभेदात् २. एकमनेकं न युज्यते, एकत्वादेव । ३. ज्ञानायत्ताः । ४. अरसाद्युपलक्षणमिदम् । ५. नाक्षजज्ञानेन तुच्छानुभवः । ६. कार्यमत्र सजातीयम् । ७. इह मृदादिरूपं कारणं जैनैः सदसद्रूपमभ्युपगतं । तच्च न कार्यद्वारेणावबोद्धं पार्यते । यतः-सर्वमपि कार्यमत्र लोके समानजातीयं कारणेन सह सदृशं यत् कारणस्वभावं गमायतुं समर्थ । न च कार्य घटादि मृदादः सदसद्रूपं वेद्यते, विद्यमानरूपत्वेनैव तस्य प्रत्यक्षत एवोपलम्भात्, इति । ८. वस्तु । ९. कार्यस्योति शेषः । १०. वस्तु । ११. सकलशक्ति विकलस्तुच्छो ह्यभावः । १२ अभावस्य । For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71